भीष्मप्रोक्तं ३ श्रीकृष्णस्तोत्रम्

भीष्मप्रोक्तं ३ श्रीकृष्णस्तोत्रम्

भीष्म उवाच । अयं दैवतवंशो वै ऋषिवंशसमन्वितः । द्विसन्ध्यं पठितः पुत्र कल्मषापहरः परः ॥ २॥ देवासुरगुरुर्देवः सर्वभूतनमस्कृतः । अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ ३॥ पितामहो जगन्नाथः सावित्री ब्रह्मणः सती । वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ ४॥ उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा । विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥ ५॥ शक्रः शचीपतिर्देवो यमो धूमोर्णया सह । वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ ६॥ सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः । षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ॥ ७॥ वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा । नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ ८॥ तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः । देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ ९॥ उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा । विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥ १०॥ आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च । धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ॥ ११॥ शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा । शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥ १२॥ नक्षत्राण्यृतवश्चैव मासाः सन्ध्याः सवत्सराः । वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥ १३॥ शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती । सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ॥ १४॥ गङ्गा महानदी चैव कपिला नर्मदा तथा । कम्पुना च विशल्या च करतोयाम्बुवाहिनी ॥ १५॥ सरयूर्गण्डकी चैव लोहित्यश्च महानदः । ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ १६॥ गोदावरी च वेणा च कृष्णवेणा तथाद्रिजा । दृषद्वती च कावेरी वङ्क्षुर्मन्दाकिनी तथा ॥ १७॥ प्रयागं च प्रभासं च पुण्यं नैमिषमेव च । तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ १८॥ पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् । सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ॥ १९॥ हिरण्वती वितस्ता च तथैवेक्षुमती नदी । वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥ २०॥ भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च । ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ॥ २१॥ कौशिकी यमुना सीता तथा चर्मण्वती नदी । नदी भीमरथी चैव बाहुदा च महानदी ॥ २२॥ महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ॥ २२॥ नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् । गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ॥ २३॥ तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् । पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ॥ २४॥ हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः । विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ॥ २५॥ मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः । श‍ृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥ २६॥ चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः । पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ॥ २७॥ दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ २७॥ विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा । पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥ २८॥ कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः । स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् । सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः ॥ २९॥ देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् । कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ॥ ३०॥ यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा । भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः । बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥ ३१॥ भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा । मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ ३२॥ मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् । दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ ३३॥ पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् । उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ ३४॥ ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा । एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः । अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ॥ ३५॥ उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् । अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ॥ ३६॥ विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च । ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ॥ ३७॥ श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा । देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ॥ ३८॥ लोमशो नाचिकेतश्च लोमहर्षण एव च । ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ॥ ३९॥ एष वै समवायस्ते ऋषिदेवसमन्वितः । आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ॥ ४०॥ नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् । धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ॥ ४१॥ कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा । दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ॥ ४२॥ यवनो जनकश्चैव तथा दृढरथो नृपः । रघुर्नरवरश्चैव तथा दशरथो नृपः ॥ ४३॥ रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः । हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ॥ ४४॥ महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः । करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः ॥ ४५॥ दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः । मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियङ्करः ॥ ४६॥ त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः । महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ॥ ४७॥ आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः । शिबिरौशीनरश्चैव गयश्चैव नराधिपः ॥ ४८॥ प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः । ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥ ४९॥ हविध्रश्च पृषध्रश्च प्रतीपः शन्तनुस्तथा । कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ॥ ५०॥ मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः । ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ॥ ५१॥ इति महाभारते अनुशासनपर्वणि १५१ अध्यायान्तर्गतं भीष्मप्रोक्तं श्रीकृष्णस्तोत्रं सम्पूर्णम् । महाभारत । अनुपर्व । अध्याय १५१/३-५१॥ mahAbhArata . anuparva . adhyAya 151/3-51.. Proofread by PSA Easwaran
% Text title            : Bhishmaproktam 3 Shri Krishna Stotram
% File name             : bhIShmaproktaM3shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (bhIShmaproktaM 3 mahAbhAratAntargatam ayaM daivatavaMsho vai RiShivaMshasamanvitaH)
% engtitle              : bhIShmaproktaM 3 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, mahAbhArata, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | anuparva | adhyAya 151/3-51||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 2, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org