भीष्मप्रोक्तं विष्णुमाहात्म्यवर्णनम्
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् ।
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥ १॥
नारायणं हृषीकेशं गोविन्दमपराजितम् ।
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥ २॥
भीष्म उवाच ।
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ ३॥
असितो देवलस्तात वाल्मीकिश्च महातपाः ।
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ॥ ४॥
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः ।
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥ ५॥
किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः ।
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर ॥ ६॥
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः ।
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् ॥ ७॥
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।
वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् ॥ ८॥
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः ।
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥ ९॥
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे ।
सोऽग्रजं सर्वभूतानां सङ्कर्षणमचिन्तयत् ॥ १०॥
आश्रयं सर्वभूतानां मनसेति विशुश्रुम ।
स धारयति भूतात्मा उभे भूतभविष्यती ॥ ११॥
ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि ।
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥ १२॥
स तत्र भगवान्देवः पुष्करे भासयन्दिशः ।
ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥ १३॥
तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि ।
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥ १४॥
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ १५॥
तस्य तात वधात्सर्वे देवदानवमानवाः ।
मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् ॥ १६॥
इति महाभारते शान्तिपर्वणि २०० अध्यायान्तर्गतं
भीष्मप्रोक्तं विष्णुमाहात्म्यवर्णनं सम्पूर्णम् ।
महाभारत । शान्तिपर्व । अध्याय २००/२-१६॥
mahAbhArata . shAntiparva . adhyAya 200/2-16..
Proofread by PSA Easwaran