भीष्मप्रोक्तं विष्णुस्तोत्रम्

भीष्मप्रोक्तं विष्णुस्तोत्रम्

भीष्म उवाच । श‍ृणु चेदं महाराज ब्रह्मभूतस्तवं मम । ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥ १॥ साध्यानामपि देवानां देवदेवेश्वरः प्रभुः । लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् । भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ॥ २॥ यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि । देवानामपि देवं च त्वामाह भगवान्भृगुः । पुराणे भैरवं रूपं विष्णो भूतपतेति वै ॥ ३॥ वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा । देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ ४॥ पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् । स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् ॥ ५॥ अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् । देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् ॥ ६॥ शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता । जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥ ७॥ एवं त्वामभिजानन्ति तपसा भाविता नराः । आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः ॥ ८॥ राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् । सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥ ९॥ एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः । केशवस्य यथातत्त्वं सुप्रीतो भव केशवे ॥ १०॥ इति महाभारते भीष्मपर्वणि ६४ अध्यायान्तर्गतं भीष्मप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् । महाभारत । भीष्मपर्व । अध्याय ६४/२-८॥ mahAbhArata . bhIShmaparva . adhyAya 64/2-8.. Proofread by PSA Easwaran
% Text title            : Bhishmaproktam Vishnu Stotram
% File name             : bhIShmaproktaMviShNustotram.itx
% itxtitle              : viShNustotram (bhIShmaproktaM mahAbhAratAntargatam shRiNu chedaM mahArAja brahmabhUtastavaM mama)
% engtitle              : bhIShmaproktaM viShNustotram
% Category              : vishhnu, vishnu, mahAbhArata, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | bhIShmaparva | adhyAya 64/2-8||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 2, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org