ब्राह्मणप्रोक्तं विष्णुपञ्जरस्तोत्रम्
ब्राह्मण उवाच ।
विष्णुः प्राच्यां स्तितश्चक्री विष्णुर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे ॥ ९॥
हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरूपी हरिर्भूमौ नारसिंहोऽम्बरे मम ॥ १०॥
क्षुरान्तममलं चक्रं भ्रमत्वेतत्सुदर्शनम् ।
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥ ११॥
गदा चेयं सहस्रार्चिरुद्वमन् पावको यथा ।
रक्षोभूतपिशाचानां डाकिनीनां च शातनी ॥ १२॥
शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य मद्रिपून् ।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः ॥ १३॥
खड्गधाराज्वलज्ज्योत्स्ना निर्धूता ये ममाहिताः ।
ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः ॥ १४॥
ये कूष्माण्डास्तथा यक्षा दैत्या ये च निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः ॥ १५॥
सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः ।
सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः ॥ १६॥
चित्तवृत्तिहरा ये च ये जनाः स्मृतिहारकाः ।
बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये ॥ १७॥
ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥ १८॥
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥ १९॥
पृष्ठे पुरस्तादथ दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥ २०॥
यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः ।
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम् ॥ २१॥
इत्यसावात्मरक्षार्थं कृत्वा वै विष्णुपञ्जरम् ।
संस्थितोऽसावपि बली राक्षसः समुपाद्रवत् ॥ २२॥
इति वामनपुराणे षडशीतितमाध्यायान्तर्गतं
ब्राह्मणप्रोक्तं विष्णुपञ्जरस्तोत्रं समाप्तम् ।
वामनपुराण । अध्याय ८६/९-२१॥
vAmanapurANa . adhyAya 86/9-21..
Proofread by PSA Easwaran