ब्रह्मणा कृतं ५ विष्णुस्तोत्रम्
ब्रह्मोवाच ।
न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥ ८३॥
कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।
अजन्मनाशस्य सदैकमूर्त्तेरनामरूपस्य सनातनस्य ॥ ८४॥
यस्य प्रसादादहमच्युतस्य मूर्त्तिः प्रजासृष्टिकरान्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ॥ ८५॥
तद्रूपमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योऽत्ति विश्वं धत्ते तथानन्तवपुस्समस्तम् ॥ ८६॥
पाकाय योऽग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्ययात्मा ।
शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश्च तमो हिनस्ति ॥ ८७॥
करोति चेष्टाश्श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी ।
ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी ॥ ८८॥
यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वात्मकस्संहृयतेऽन्तकारी पृथक् त्रायस्यास्य च योऽव्ययात्मा ॥ ८९॥
यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोऽस्मिञ्जगति स्वयम्भूः ।
स सर्वभूतप्रभवो धरित्र्यां स्वांशेन पुष्णुर्नृप तेऽवतीर्णः ॥ ९०॥
कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।
सा द्वारका सम्प्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥ ९१॥
तस्मै त्वमेनां तनयां नरेन्द्र प्रयच्छ मायामनुजाय जायाम् ।
श्लाघ्यो वरोऽसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥ ९२॥
इति विष्णुपुराणे चतुर्थभागे प्रथमाध्यायान्तर्गतं
ब्रह्मणा कृतं विष्णुस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ४/१/८३-९०॥
viShNupurANa . adhyAya 4/1/83-90..
Proofread by PSA Easwaran