ब्रह्मणा प्रोक्तं विष्णोः गुणादिवर्णनम्

ब्रह्मणा प्रोक्तं विष्णोः गुणादिवर्णनम्

ब्रह्मोवाच । श‍ृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः । अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ १॥ न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम । सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ २॥ अशरीरः शरीरेषु सर्वेषु निवसत्यसौ । वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥ ३॥ ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ ४॥ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ ५॥ क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ६॥ नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् । साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ॥ ७॥ चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् । यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ॥ ८॥ तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः । महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥ ९॥ एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसां योनिरेका । एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः । पुरुषश्चैको निर्गुणो विश्वरूप स्तं निर्गुणं पुरुषं चाविशन्ति ॥ १०॥ हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् । उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥ ११॥ अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् । विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ॥ १२॥ एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः । एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ॥ १३॥ तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः । स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥ १४॥ कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते । स सप्तदशकेनापि राशिना युज्यते हि सः । एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥ १५॥ यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं स बोद्धृ । मन्ता मन्तव्यं प्राशिता प्राशितव्यं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥ १६॥ द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च । यद्वै प्रोक्तं गुणसाम्यं प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च ॥ १७॥ यद्वै सूते धातुराद्यं निधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् । यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥ १८॥ देवाः सर्वे मुनयः साधु दान्तास्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते । अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र ॥ १९॥ इति महाभारते शान्तिपर्वणि ३३९ अध्यायान्तर्गतं ब्रह्मणा नारदाय प्रोक्तं विष्णोः गुणादिवर्णनं सम्पूर्णम् । महाभारत । शान्तिपर्व । अध्याय ३३९/१-१८॥ mahAbhArata . shAntiparva . adhyAya 339/1-18.. Proofread by PSA Easwaran
% Text title            : Brahmana Proktam Vishnoh Gunadivarnanam
% File name             : brahmaNAproktaMviShNoHguNAdivarNanam.itx
% itxtitle              : viShNoHguNAdivarNanam (brahmaNAproktaM mahAbhAratAntargatam)
% engtitle              : brahmaNAproktaM viShNoHguNAdivarNanam
% Category              : vishhnu, vishnu, mahAbhArata
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | shAntiparva | adhyAya 339/1-18||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org