ब्रह्मणा प्रोक्तं विष्णोः गुणादिवर्णनम्
ब्रह्मोवाच ।
शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः ।
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ १॥
न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम ।
सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ २॥
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ।
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥ ३॥
ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ ४॥
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ ५॥
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ६॥
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् ।
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ॥ ७॥
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् ।
यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ॥ ८॥
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः ।
महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥ ९॥
एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसां योनिरेका ।
एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः ।
पुरुषश्चैको निर्गुणो विश्वरूप स्तं निर्गुणं पुरुषं चाविशन्ति ॥ १०॥
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् ।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥ ११॥
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।
विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ॥ १२॥
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।
एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ॥ १३॥
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः ।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ।
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥ १४॥
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ।
स सप्तदशकेनापि राशिना युज्यते हि सः ।
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥ १५॥
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं स बोद्धृ ।
मन्ता मन्तव्यं प्राशिता प्राशितव्यं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥ १६॥
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च ।
यद्वै प्रोक्तं गुणसाम्यं प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च ॥ १७॥
यद्वै सूते धातुराद्यं निधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।
यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥ १८॥
देवाः सर्वे मुनयः साधु दान्तास्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते ।
अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ।
मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र ॥ १९॥
इति महाभारते शान्तिपर्वणि ३३९ अध्यायान्तर्गतं
ब्रह्मणा नारदाय प्रोक्तं विष्णोः गुणादिवर्णनं सम्पूर्णम् ।
महाभारत । शान्तिपर्व । अध्याय ३३९/१-१८॥
mahAbhArata . shAntiparva . adhyAya 339/1-18..
Proofread by PSA Easwaran