ब्रह्मकृता नृसिंहस्तुतिः

ब्रह्मकृता नृसिंहस्तुतिः

ब्रह्मोवाच । भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः । भवान्कर्ता विकर्ता च लोकानां प्रभवोऽव्ययः ॥ ९८॥ परां च सिद्धिं च परं च देवं परं च मन्त्रं परमं हविश्च । परं च धर्मं परमं च विश्वं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ ९९॥ परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् । परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १००॥ एवं परस्यापि परं पदं यत्परं परस्यापि परं च देवम् । परं परस्यापि परं च भूतं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १०१॥ परं परस्यापि परं रहस्यं परं परस्यापि परं महत्त्वम् । परं परस्यापि परं महद्यत्त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १०२॥ परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् । परं परस्यापि परं च दान्तं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १०३॥ एवमुक्त्वा तु भगवान्सर्वलोकपितामहः । स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥ १०४॥ ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च । क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥ १०५॥ नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् । पौराणं रूपमास्थाय प्रययौ गरुडध्वजः ॥ १०६॥ अष्टचक्रेण यानेन भूतयुक्तेन भास्वता । अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥ १०७॥ इति मत्स्यपुराणे त्रिषष्ट्यधिकशततमाध्यायान्तर्गता ब्रह्मकृता नरसिंहस्तुतिः समाप्ता । मत्स्यपुराण । अध्याय १६३/९८-१०७॥ matsyapurANa . adhyAya 163/98-107.. Proofread by PSA Easwaran
% Text title            : Brahmakrita Nrisimha Stuti 3
% File name             : brahmakRRitAnRRisiMhastutiH.itx
% itxtitle              : nRisiMhastutiH 3 (brahmakRitA matsyapurANAntargatA bhavAnbrahmA cha rudrashcha mahendro devasattamaH)
% engtitle              : brahmakRRitA nRRisiMhastutiH 3
% Category              : vishhnu, vishnu, matsyapurANa, stuti, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : matsyapurANa | adhyAya 163/98-107||
% Indexextra            : (Scans 1, 2, 3, 4, 5, English 1, 2, Hindi, Marathi, Bengali)
% Latest update         : September 27, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org