ब्रह्मकृतं ५ विष्णुस्तोत्रम्
ब्रह्मोवाच ।
देवदेव जगन्नाथ जगत्सृष्टमिदं त्वया ।
ऋते त्वया जगद्विष्णो नैवावस्थातुमर्हति ॥ १२॥
शास्ता त्वमस्य विश्वस्य विशुद्धस्य च नापरः ।
त्वत्तोऽस्तीदं जगत्सर्वं तस्मात्त्वमनुशासय ॥ १३॥
देवदानवगन्धर्वाः सयक्षोरगराक्षसाः ।
त्वामृते पुण्डरीकाक्षं व्यापिताशेषविग्रहाः ।
परस्परं विनिघ्नन्ति तांश्च त्वं रक्षितुं क्षमः ॥ १४॥
त्वमस्य विश्वस्य चराचरस्य ।
स्थितेः सदा प्राणभृदात्मरूपिणी ॥ १५॥
त्वया धृतं सर्वमिदं जगद्वै
यतस्ततोऽसि त्वमुपेन्द्रसंज्ञः ।
प्रवेशनं व्याप्तमिदं स्वधाम यत्
त्वमुच्यसे विष्णुरतो मुनीन्द्रैः ॥ १६॥
निवासितं विश्वमिदं त्वयाद्य
वासश्च धातोरिति वासुदेवः ।
तवानुगं विश्वमिदं विभुस्त्व-
मशेषविश्वस्य विभासि राजा ॥ १७॥
सेनानुरूपं जगदेव यस्मा-
दतः स्मृतस्त्वं किल विश्वसेनः ।
विलेखनादस्य चराचरस्य
कृतेश्च धातोस्त्वमतोऽसि कृष्णः ॥ १८॥
जितं त्वया देव जगत्त्रयं य-
ज्जितेश्च धातोस्त्वमतोऽसि जिष्णुः ।
तस्मात्समस्तग्रहलोकपालं
जगद्विभो पालय सर्वकालम् ॥ १९॥
त्वमस्य सर्वस्य भवादिराज-
स्तवास्तु भद्रासनमद्वितीयम् ।
प्रदक्षिणावर्तनकस्तु शङ्खः
करस्थितः शोभति पूरुषस्य ॥ १.४१.२०॥
सुदर्शनं नाम तवास्ति चक्र-
मतो हि गीतः कविभिस्तु चक्री ।
ध्वजोऽस्ति ते देव सुपर्णसेवित-
स्तथा सुपर्णश्च तवास्ति वाहनम् ॥ २१॥
तुरङ्गमाः सन्तु तवारिसंहरे
तथा हृषीकेश सुदन्तदन्तिनः ।
किरीटनिष्काङ्गदकर्णपूर-
केयूरहारोत्तमहेमसूत्रैः ॥ २२॥
विचित्रवस्त्रोत्तमरक्तमाल्यै-
र्विभूषितस्त्वं भव भीमसेनः ।
श्रिया कदाचिच्च न मुच्यते भवान्
भवन्ति ते नित्यमनन्तसम्पदः ॥ २३॥
तवानुगा भक्तिरिहास्तु वै सती ।
मुकुन्दभक्ते त्वमतः प्रसीद मे ॥ २४॥
इति श्रीस्कन्दपुराणे आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये एकचत्वारिंशाध्यायान्तर्गतं
ब्रह्मकृतं विष्णुस्तोत्रं समाप्तम् ।
स्कन्दपुराण । आवन्त्यखण्ड । आवन्त्यखण्ड । अध्याय ४१/१२-२४॥
skandapurANa . AvantyakhaNDa . AvantyakhaNDa . adhyAya 41/12-24..
Proofread by PSA Easwaran