ब्रह्मकृतं १४ विष्णुस्तोत्रम्
पूर्वं नष्टां स्मृतिं लब्ध्वा ब्रह्मा तुष्टाव केशवम् ॥ ३४॥
नमः सृष्टिस्वरूपाय नमो वैराजमूर्तये ।
नमोऽवान्तरसर्गाय नमो ब्रह्मादिरूपिणे ॥ ३५॥
नमो हिरण्यगर्भाय महाविष्णुस्वरूपिणे ।
नमः प्रधानपतये प्रकृतिस्वामिने नमः ॥ २६॥
नमो भूम्नेऽनिरुद्धाय प्रद्युम्नाय च ते नमः ।
नमः सङ्कर्षणाख्याय वासुदेवाय ते नमः ॥ २७॥
नमो महापूरुषाय महाकालाय ते नमः ।
नमोऽक्षरनिवासाय मुक्तान्तर्यामिणे नमः ॥ ३०॥
व्यापकाय परेशाय नैकरूपाय ते नमः ।
सति त्वयि विपर्यासो विवर्तः परिणामकः ॥ २९॥
जगतोऽस्य भवेन्नूनं तदभिन्नाय ते नमः ।
साक्षिणे सर्वनेत्राय स्वराजे च नमो नमः ॥ ८.४०॥
नानाश्चर्यनिवासाय नानारूपधराय च ।
भिन्नात्मदर्शिने पूर्वं पश्चादेकात्मदर्शिने ॥ ४१॥
अन्वितानन्वितार्थाय नमः सदसदात्मने ।
परमाणुस्वरूपाय व्यापकाय च ते नमः ॥ ४२॥
त्रिधाच्छेदविहीनाय स्रीपुंरूपात्मने नमः ।
नमो ज्ञानाय दिव्याय ज्ञेयाय ज्ञातृरूपिणे ॥ ४३॥
नमो मानस्वरूपाय मानाय मितये नमः ।
प्रमात्रे च नमस्तेऽस्तु सत्कार्याय च ते नमः ॥ ४४॥
फलव्याप्तिस्वरूपाय श्रुतिवादाय ते नमः ।
वाग्विश्रान्तिस्वरूपाय नमो ज्ञप्तिलयात्मने ॥ ४५॥
प्रकाशाकाशतनवे दिव्यादिव्यगुणात्मने ।
सर्वं यस्माद्यत्र सर्वं यश्च सर्वात्मकः प्रभुः ॥ ४६॥
स्वप्नास्वप्नोभयार्थाय शास्त्रे तेऽस्तु नमो नमः ।
त्वया कृपालुना देव हृत्कपाटं प्रवोधितम् ॥ ४७॥
यदर्थं तत्करिष्येऽहं तत्र मा विस्मर प्रभो ।
त्वत्प्रदत्तप्रबोधेन करिष्ये सर्गघट्टनाम् ॥ ४८॥
तत्र मे बन्धनं मा स्यात्साहाय्यं प्रार्थये तव ।
सर्वकार्यसमुत्पादे क्लृप्तिदर्शकरो भव ॥ ४९॥
इति स्तुत्वा स्वयं ब्रह्मा तूष्णीमास क्षणान्तरे ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतसन्तानखण्डे अष्टमाध्यायान्तर्गतं
ब्रह्मकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ८/३४-४९॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 8/34-49..
Proofread by PSA Easwaran