श्रीकृष्णस्तोत्र ब्रह्मारचित
श्री गणेशाय नमः ।
ब्रह्मोवाच ।
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १॥
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २॥
जन्मोर्मिसङ्गसहिते योषिन्नक्रौधसङ्कुले ।
रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च ॥ ३॥
प्रथमामृतरूपे च परिणामविषालये ।
यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥ ४॥
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् ।
स्वयं च त्व कर्णधारः प्रसीद मधुसूदन ॥ ५॥
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि ।
सन्ति विश्वेश विधयो हे विश्वेश्वर माधव ॥ ६॥
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।
तथापि न स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७॥
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८॥
इत्युक्त्वा जगतां धाता विरराम सनातनः ।
ध्यायं ध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति ॥ ९॥
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
स चैवाकर्मविषये न निमग्नो भवेद्ध्रुवम् ॥ १०॥
मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम् ।
इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥ ११॥
॥ इति श्रीब्रह्मदेवकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥
Proofread by Ravin Bhalekar ravibhalekar at hotmail.com