ब्रह्मनारीभिः कृतं कृष्णनारायणस्तोत्रम्

ब्रह्मनारीभिः कृतं कृष्णनारायणस्तोत्रम्

तथा देव्यो ब्रह्मनार्यः पुपूजुश्चोपदान्विताः । नृत्यगीतोत्सवाँश्चक्रुः स्वावासे यज्जनार्दनः ॥ ७५॥ सर्वार्पणं प्रचक्रुश्च ब्रह्मेशाय परात्मने । तुष्टुवुः श्रीजयाकान्तं नरा नार्यश्च तापसाः ॥ ७६॥ ``नमः सर्वावताराणामवतारिन् परात्मने । मुक्तानां मण्डलावासायाऽपि मानुषवासिने ॥ ७७॥ कृपालवे सत्यलोकलाभदाय च ते नमः । नमस्तापसदेवाय तपोलोकागताय ते ॥ ७८॥ नमो मोक्षप्रदात्रे ते नमः पितृप्रमोचिने । नमोऽनन्तस्वरूपायानन्तशक्त्यभिशालिने ॥ ७९॥ नमो ब्रह्मप्रियाकान्तस्वरूपायान्तरात्मने । हरिप्रियाभिसेव्याय बालकृष्णाय ते नमः ॥ ८०॥ तपोलोकस्तपःप्राप्यस्तपःक्षये क्षयं व्रजेत् । तापसाश्च गतैश्वर्या नश्यन्ति भवसागरे ॥ ८१॥ हरिं विना न वै मुक्तिः सोऽयं भवानुपागतः । उद्धारय तपोलोकात् संसारसागरादितः ॥ ८२॥ पूर्वेषां कल्पकालानां पुण्यभाजो वयं त्विह । कृपया निवसामो हि यद्यपि श्रीभुजः सदा ॥ ८३॥ तथापि तव सान्निध्यं पादयोः पूजनं तु नः । कदापि प्राप्यते नैव नावाप्येत कृपां विना ॥ ८४॥ स्वर्गसत्यान्तलोकानां निवासिनां तु सर्वथा । महापुण्यानि सन्त्येव केवलं बन्धनानि हि ॥ ८५॥ नैव पुण्यफलं भोगमन्तरान्यत् प्रवर्तते । इयं तु करुणा तेऽत्र हरे यद्दर्शनं तव ॥ ८६॥ वरं तु भूतले जन्म यत्र कृष्णो ह्यवाप्यते । न दिनं तु विना कृष्णं साक्षात् पृथ्वीगतं क्वचित् ॥ ८७॥ अन्यलोकेष्वेकवारं समायास्यति गौरवात् । महाकार्यनिवहार्थं सर्वथा दृश्यसे न हि ॥ ८८॥ वरं भूतपिशाचादिजन्म देवर्षिपितृतः । यत्र क्वापि मिलेन्मुक्तिर्योगतः श्रीहरेः सताम् ॥ ८९॥ तदद्य भगवान् प्राप्तो दयाशेवधिरच्युतः । कुरु नः सर्वथा मोक्षमर्थयामो वरं त्वियम् ॥ ९०॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे ९०-अध्यायान्तर्गतं ब्रह्मनारीभिः कृतं कृष्णनारायणस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय ९४/७५-९०॥ lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 94/75-90.. Proofread by PSA Easwaran
% Text title            : Brahmanaribhih Kritam Krishnanarayana Stotram
% File name             : brahmanArIbhiHkRRitaMkRRiShNanArAyaNastotram.itx
% itxtitle              : kRiShNanArAyaNastotram (brahmanArIbhiHkRitaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : brahmanArIbhiHkRRitaM kRRiShNanArAyaNastotram
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 4 | adhyAya 94/75-90||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : May 15, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org