ब्रह्मवादी राज्ञा कृतं विष्णुस्तोत्रम्
(ब्रह्मवादी) राजोवाच ।
क्षराक्षरं क्षीरसमुद्रशायिनं
क्षितीधरं मूर्तिमतां परं पदम् ।
अतीन्द्रियं विश्वभुजां पुरः कृतं
निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ ३१॥
त्वमादिदेवः परमार्थरूपी विभुः पुराणः पुरुषोत्तमश्च ।
अतीन्द्रियो वेदविदां प्रधानः प्रपाहि मां शङ्खगदास्त्रपाणे ॥ ३२॥
कृतं त्वया देव सुरासुराणां सङ्कीर्त्यतेऽसौ च अनन्तमूर्ते ।
सृष्ट्यर्थमेतत्तव देव विष्णो न चेष्टितं कूटगतस्य तत्स्यात् ॥ ३३॥
तथैव कूर्मत्वमृगत्वमुच्चैस्त्वया कृतं रूपमनेकरूप ।
सर्वज्ञभावादसकृच्च जन्म सङ्कीर्त्त्यते तेऽच्युत नैतदस्ति ॥ ३४॥
नृसिंह नमो वामन जमदग्निनाम दशास्यगोत्रान्तक वासुदेव ।
नमोऽस्तु ते बुद्ध कल्किन् खगेश शम्भो नमस्ते विबुधारिनाशन ॥ ३५॥
नमोऽस्तु नारायण पद्मनाभ नमो नमस्ते पुरुषोत्तमाय ।
नमः समस्तामरसङ्घपूज्य नमोऽस्तु ते सर्वविदां प्रधान ॥ ३६॥
नमः करालास्य नृसिंहमूर्त्ते नमो विशालाद्रिसमान कूर्म ।
नमः समुद्रप्रतिमान मत्स्य नमामि त्वां क्रोडरूपिन्ननन्त ॥ ३७॥
सृष्ट्यर्थमेतत् तव देव चेष्टितं न मुख्यपक्षे तव मूर्त्तिता विभो ।
अजानता ध्यानमिदं प्रकाशितं नैभिर्विना लक्ष्यसे त्वं पुराण ॥ ३८॥
आद्यो मखस्त्वं स्वयमेव विष्णो मखाङ्गभूतोऽसि हविस्त्वमेव ।
पशुर्भवान् ऋत्विगिज्यं त्वमेव त्वां देवसङ्घा मुनयो यजन्ति ॥ ३९॥
यदेतस्मिन् जगद्ध्रुवं चलाचलं सुरादिकालानलसंस्थमुत्तमम् ।
न त्वं विभक्तोऽसि जनार्दनेश प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ ४०॥
नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे ।
शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ ४१॥
इति वराहपुराणे पञ्चपञ्चाशत्तमाध्यायान्तर्गतं (ब्रह्मवादी)
राज्ञा कृतं विष्णुस्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय ५५/३१-४१॥
varAhapurANa . adhyAya 55/31-41..
Proofread by PSA Easwaran