चक्रपाण्यष्टकम्
सतोयतोयदालिनीलदिव्यविग्रहोपरि
स्फुरद्धिरण्यकान्तिजालशोभिपीतवाससे ।
किरीटरत्नरोचिषा विनिर्जितोष्णरश्मये
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ १॥
ललामशोभितत्तदङ्गसौभगात्ममूर्तये
ललाटगोर्ध्वपुण्ड्रकान्तिधूतपातकालये ।
प्रफुल्लरत्नवारिरुट्छदायतात्मचक्षुषे
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ २॥
अनर्घरत्नदीप्तिपुञ्जहैमकुण्डलत्विषा
धगद्धगायमाननैजगण्डयुग्मशोभिने ।
अमन्दशीतमन्दहासनिर्जितामृतांशवे
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ३॥
प्रशस्तकम्बुकन्धरप्रलम्बिकौस्तुभोल्लसद्-
बृहद्विशालवक्षसि स्थितेन्दिराविभूतये ।
भुजङ्गराजभोगदीर्घभूषणाढ्यबाहवे
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ४॥
समस्तजीवसन्तताण्डकोटिपूर्णकुक्षये
सदन्तरङ्गरत्नपीठवासिनेऽमलात्मने ।
खगाधिराजवाहनस्थिताय शेषशायिने
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ५॥
अशेषभूतभौतिकादिविश्वसृष्टिशक्तिमद्-
विधातृजन्मभूमिभूतनाभिपङ्कजश्रिये ।
समस्तवेदसन्नुतप्रभावयुङ्निजङ्घ्रये
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ६॥
दशाननाद्यनेकदुष्टनिग्रहार्थमादराद्
गृहीतरामकृष्णपूर्वदिव्यमूर्तिकोटये ।
गजेन्द्रपूर्वनैजभक्तपालनैकदृष्टये
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ७॥
अमायिकस्वरूपभूतपारमार्थिकाश्रया-
दखण्डसच्चिदात्मकस्वरूपमात्रशोभिने ।
अथापि तत्तदुत्सवाय तत्तदात्मकाय ते
नतिर्ममास्तु सन्ततं हृदिस्थचक्रपाणये ॥ ८॥
चक्रपाण्यष्टकस्तोत्रमिदं भक्त्यैव यः पठेत् ।
विपच्चकान्न तस्यास्ति भयलेशोऽपि सर्वदा ॥ ९॥
इति श्रीचक्रपाण्यष्टकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (५८)
Proofread by Rajesh Thyagarajan