$1
श्रीवादिराजतीर्थगुरुवर्यविरचिता चक्रस्तुतिः
$1

श्रीवादिराजतीर्थगुरुवर्यविरचिता चक्रस्तुतिः

दोषौघवारणं यस्य धारणं मोक्षकारणम् । न वैदिकं तप्तचक्रधारणं यदि मनसे ॥ १॥ ग्रन्थादौ मङ्गलं तर्हि कस्मान्नावैदिकं तव । शिष्टाचारात् स्मृतिः कल्प्या स्मृतेश्च श्रुतिकल्पना ॥ २॥ यदि तत्र तथैतस्मिन् किन्न कल्पयसि श्रुतिम् । द्वारकायायिभिः सर्वैरद्यापि प्राक्प्रवेशतः ॥ ३॥ निम्बादित्यानुगैः प्राज्ञैर्मायावाद्येकदेशिभिः । विष्णुस्वामिमतस्थैश्च रामानुजमताश्रयैः ॥ ४॥ तत्त्ववादिजनाचार्यैः शिष्टश्रेष्ठैरनुष्ठिते । कैश्चिच्चीर्णमिदं नोचेत्त्यक्तं तदपि नास्तिकैः ॥ ५॥ बहुशिष्टजनाचारः प्रमाणमुभयत्र च । स्वमूलग्रन्थभागेषु तथा प्रकरणेषु च ॥ ६॥ निबन्धेषु च सर्वेषु केनापीदं न दूषितम् । अनाचारस्तु केषाञ्चिदनाचारः प्रकल्प्यताम् ॥ ७॥ त्यजेदेकं कुलस्यार्थमिति न्यायं विजानत । नृसिंहपरिचर्यायां रामार्चाचन्द्रिकादिषु ॥ ८॥ श्रुतिस्मृतिपुराणोक्त्या तैरपीदं प्रसाधितम् । न नः पूर्वैः पराक्रान्तं सर्वसंप्रतिपत्तितः ॥ ९॥ इदातीनीमाग्रहादेव विवदन्ते क्वचित् क्वचित् । दुराग्रहग्रहं तेषां केषाञ्चिन्मनसि स्थितम् ॥ १०॥ निवर्तयेत्सुप्रयुक्तः श्रौतो मन्त्रो महात्मभिः । अवैदिकमिदं चेत्ते ब्रह्मैक्यं वैदिक कुतः ॥ ११॥ श्रुतयस्तत्र चेत् सन्ति न सन्ति किमिहागमाः । यद्येतेषामितोन्योर्थः कल्प्यते स्वकफोलतः ॥ १२॥ श्रुतिस्मृतिसमाख्यातस्तत्रान्यार्थो न किं श्रुतः । आग्रहोयं परेषां चेत्तथायं किन्तु नाग्रहः ॥ १३॥ वादिविप्रतिपन्नाभिः श्रौतत्वं तूभयोः समम् । यद्यश्रौतमिदं कर्म यज्ञोश्रौतः कथं न ते ॥ १४॥ तन्मूलभूतवेदानामतत्वावेदकत्वतः । अन्यार्थकल्पनेनापि तत्त्ववेदकता गता ॥ १५॥ तेनैवावेदकत्वं चेदध्वरस्य कथं न तत् । अधुना बाधवैधुर्याद्व्यावहारिकमानता ॥ १६॥ समोभयत्र केषाञ्चिन्मते बाधोत्र तत्र च । वेदाप्रामाण्यशंसित्वादशिष्टौ तावुभावपि ॥ १७॥ व्यावहारिकमानत्वं मूढाप्रामाण्यमेव हि । अतप्तधारणं चेत्स्यात्तन्मूलेनैतदागतम् ॥ १८॥ सदा तदुक्तलाभार्थमिदं प्राज्ञैर्हिरण्मयी । पवित्रमुद्रेव कुशश्रुतिमूला प्रधार्यते ॥ १९॥ किमग्निनापराद्धं ते किं चक्रेण मुरद्विषः । किं वा सद्भिरनिर्भीतैः किं पुराणैस्त्रयीगिरा ॥ २०॥ निषेधवाक्याद्भीतिस्तु तप्तातप्ताङ्कयोः समा । तत्सर्वं तप्तगं कुर्वन् समः स्वार्थपरार्थयोः ॥ २१॥ अमन्त्राहोममूलाङ्कविषयं कुरु लाघवात् । शिष्टाचारविरुद्धोर्थः स्वसारं चाधिरोहति ॥ २२॥ इत्यादौ त्यज्यते वेदे किं पुनः स्मृतिकोणगः । यदि स्मतिमनादृत्य श्रुतावनुदितत्वतः ॥ २३॥ विधिं न मानयस्येनं निषेधः केन मान्यते । नहि श्रुतिसती धर्ममिमं क्यापि निषेधति ॥ २४॥ सुदर्शनकृतोद्योगनिष्कण्टकितपद्धतिः । तूष्णीं स्थितेपि लोकेस्मिन्नङ्गीकार इतीर्यते ॥ २५॥ शास्त्रेप्यप्रतिषिद्धं चेद्गीयतेनुमतं त्विति । यदि स्मृत्युक्तमाचारमश्रौतं मन्यते भवान् ॥ २६॥ शौचादौ दिग्विभागं च वैचित्र्यं मृत्तिकाग्रहे । योग्यायोग्यदिनत्वं च दन्तधावनकर्मणि ॥ २७॥ काष्ठे ग्राह्याग्राह्यतां च तथाचमनपद्धतिम् । गृह्योक्तं पार्वणविधिं भोज्याभोज्यपदार्थताम् ॥ २८॥ क्रमं षोडशसंस्कारे श्राद्धादीनां दिनान्यपि । तर्हि त्यक्त्वा व्रात्यदशामाश्रय त्वविशङ्कितः ॥ २९॥ सर्वधर्मान् परित्यज्येत्यादिवाक्यमुपाश्रितः । नारदीये बृहति ते बलं वाक्यचतुष्टयम् ॥ ३०॥ पाद्मगारुडमुख्येषु सन्त्यस्माकं सहस्रशः । द्वैधे बहूनां वचनमिति न्यायेन तत्र्यजन् ॥ ३१॥ अङ्गीकुरु हरेश्चक्रधृतिं मुक्तिसृतिं पराम् । अष्टादशपुराणस्थान्यस्मद्वाक्यानि सर्वशः ॥ ३२॥ मुख्यान्युपपुराणस्थवाक्येभ्यो नहि बिभ्यति पञ्चरात्रस्य विष्णूक्तेः सर्वैः प्रामाण्यमिष्यते ॥ ३३॥ प्रतिष्ठापर्वपूजाद्या देवानां स्युः कथं न चेत् । श्रुतिप्रतीकं सङ्गृह्य पवित्राख्यां प्रदाय च ॥ ३४॥ तत्र प्रथमसंस्कारस्तप्तचक्राङ्क ईर्यते । तद्विरुद्धमृषिप्रोक्तं दुरुक्तमिति गृह्यते ॥ ३५॥ उभयोः कलहे साक्षी विजातीयो हि मान्यते । यच्छास्त्रं लिङ्गपारम्यं परं देवमुमापतिम् ॥ ३६॥ तमःप्रवर्तकं वक्ति तामसं तत्प्रचक्षते । इति गारुडवाक्येन तथा पाद्मगतेन च ॥ ३७॥ विष्ण्वाधिक्यविरोधित्वे पुराणस्मृतिविद्ययोः । अपि तामसतैवोक्ता ततोप्यन्यदुपेक्षताम् ॥ ३८॥ नहि तामसमाश्रित्य तमः प्राप्तुं त्वमर्हसि । श्रीमद्भागवतं सर्वैः पूर्वैर्नो भवतामपि ॥ ३९॥ पुराणेषूत्तमत्वेन श्रुतं मतमुपाश्रितम् । तत्रापि विष्णुमाहात्म्यरसायनविरोधिनाम् ॥ ४०॥ शैवोक्तिविषबिन्दूनां तामसत्वमुदाहृतम् । १वाचं हीनां मया रक्षन् दुःखदुःखी भवेदिति ॥ ४१॥ श‍ृण्वन्ति येन्यविषयाः कुकथा मतिनाशिनीः । ते तमः प्राप्नुवन्तीति वन्ध्यां न बिभृयाद्गिरम्२॥ ४२ ॥ इत्यादौ तेन चोक्तं नः सर्वं चार्वेव गम्यते । मल्लक्षणमिमं कायं कृत्वा मद्धर्ममाश्रितः ॥ ४३॥ स्वलिङ्गधारणेनेति तत्रोक्तं चक्रलाञ्छनम् । श्रुतितात्पर्यसिद्ध्यर्थे विरोधं कुर्वती स्मृतिः ॥ ४४॥ विरोधे त्वनपेक्षं स्यादित्यमानत्वमेष्यति । पवित्रं त इति ह्येका गोविन्दुर्बिभ्रदायुधम् ॥ ४५॥ येन देवाः पवित्रेण आत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥ ४६॥ इत्याद्यृचि यजुर्वेदे लोकस्य द्वारमित्यपि । चरणं पूतमिति च तथा साम्नि स्फुटं वचः ॥ ४७॥ नेमिना तप्तसुतनुः सायुज्यं प्राप्नु यादिति । उरुक्रमाङ्कैः सुभगा वयमेभिरिहाङ्किताः ॥ ४८॥ इत्यथर्वगतं वाक्यं तथा श्रुतिशिरस्यपि । अद्यापि गौर्जरैर्विप्रैः पठ्यमाने गुरोर्मुखात् ॥ ४९॥ धृतोर्ध्वपुण्ड्रः श्रितसच्चक्रधारी हरिं परम् । यो ध्यायेत्स महात्मेति स्पष्टमर्थान्तरोज्जितम् ॥ ५०॥ सन्ति स्मृतीतिहासाद्याः पुराणानि च कोटिशः । सुदर्शनस्य मीमांसा कृता ह्यस्मत्पुरातनैःः ॥ ५१॥ तत्रोद्धैतेषु वाक्येषु कथमेतेषु संशयः । यदि वाक्यं स्वयं कृत्वा प्रावक्ष्यन् पूर्वसूरयः ॥ ५२॥ तर्ह्यर्च्यनेकभेदायां कुतो वाक्यं निजेच्छया । व्याकरिष्यन्नतिस्पष्टमनर्थान्तरसम्भवम् ॥ ५३॥ प्रावर्तन्त कथं पूर्वे सर्वेऽप्यास्तिकमौलयः । स्पष्टैर्वाक्यैर्नचेत् सर्वविप्लवः स्याज्जिनोक्तितः ॥ ५४॥ स वक्ति सर्वमाम्नायं रक्षसा केनचित् कृतम् । पवित्रर चरणं' चक्रं लोकद्वारं सुदर्शनम् ॥ ५५॥ पर्यायवाचका ह्यैते चक्रस्य परमात्मनः । पुराणोक्तिरियं चक्रं पवित्राद्याख्ययाह हि ॥ ५६॥ मर्त्यानुशासनं ग्राह्यं किं पुनः स्मार्तशासनम् । पविवत्त्रायते लोकानिति व्युत्पत्तिसम्भवात् ॥ ५७॥ योगरूढिबलायाता पवित्राख्या सुदर्शने । इमां श्रुतिमुपादाय पुराणान्येव सर्वशः ॥ ५८॥ प्रमाणयन्ति स्वोक्तेस्मिंस्तप्तचक्राङ्कधारणे । अतोन्यार्थः श्रुतेरस्याः कथं शक्यो मनीषिभिः ॥ ५९॥ सति नेतरि मार्गस्य किमन्धोक्तः क्रमो भवेत् । पवित्रपदनिर्दिष्टमर्थं वेदस्तमेव हि ॥ ६०॥ सहस्रधारनामोक्त्या चक्रत्वं स्पष्टयत्यहो । षट्कोणत्वाभिधां चक्रच्छायामद्याप्युपाददत् ॥ ६१॥ कुशग्रन्थिरसपि ह्यासीत्पवित्राख्यो महीतले । यथा चित्रस्थसिंहस्य सिंहसादृश्यमात्रतः ॥ ६२॥ सिंहतायां मुख्यसिंहो वन्य एवेति निर्णयः । तथा पवित्रनामै तच्चक्रस्यैवेति गम्यते ॥ ६३॥ षट्कोणता सर्वमते चक्रस्यैव हि लक्षणम् । आगमोक्तं पवित्रं च षट्कोणग्रन्थितोभवत् ॥ ६४॥ अतोन्यार्थकथा वाताहता शुष्यलताभवत् । तत्पवित्रमिदं व्याप्तं यत्त्वं पर्येषि विश्वतः ॥ ६५॥ इति श्रुत्युदितं विष्णुव्याप्त्या व्याप्तत्वमेव च । चक्रवोचितं विप्रकुशस्यात्यन्तबाधितम् ॥ ६६॥ प्राक्प्रसक्तपवित्रेण तप्तातप्तत्वमिष्यते । पञ्चाग्निकृततापोक्तौ दूषणद्वयवागतम् ॥ ६७॥ प्रसक्तस्य परित्यागो ह्यप्रसक्तपरिग्रहः । आमत्वोक्त्या तप्तचक्रदाहाभावो हि दूष्यते ॥ ६८॥ अग्नि दूरसमीपस्थवस्तुन्यात्मत्वसाम्यतः ॥ श‍ृतास इति शब्दार्था दाहवन्तो न तापसाः ॥ ६९॥ पादोक्तौ स्यात् पवित्रेणेत्येतद्व्यर्थं पदान्तरम् । चक्रं प्रयुज्य निबिडं तमो निर्भिद्य रन्ध्रतः ॥ ७०॥ अनन्तासनलोकं स्वं प्राप कृष्णः सहार्जुनः । इति पौराणिकख्यात्या लोकस्य द्वारतापि च ॥ ७१॥ चक्रस्यैवोचितान्यत्र शक्योतोर्थो न शङ्कितुम् । अपि चार्थद्वये प्राप्ते समाख्यैकार्थसाधिका ॥ ७२॥ तत्पुराणसमाख्यानादर्थोयमवधार्यते । मीमांसाभिधविख्यातसीमासाम्राज्यकारिभिः ॥ ७३॥ यद्यप्याम्नायमार्गेस्मिन् वक्तुं बहु च शक्यते । तथाप्यल्परणोद्योगे योद्धुः शूरस्य नोचितं महाप्राकारकरणमिति मत्वोपरम्यते ॥ ७४॥ कुमतध्वान्तनिर्भेदी स्वमताम्भोधीसम्भ्रमः । हयग्रीवोल्लसच्चन्द्रपादः खेदापहोस्तु नः ॥ ७५॥ हयग्रीवपदद्वन्द्वचिन्तनासक्तचेतसा ॥ यतिना वादिराजेन चक्रस्तुतिरियं कृता ॥ ७६॥ ॥ इति श्रीमद्वादिराजपूज्यचरणविरचिता चक्रस्तुतिः सम्पूर्णा ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Footnotes १ गां दुग्धदोहामसतीं च भार्या देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्गवाचं हीनां मया रक्षति दुःखदुःखी ॥ २ यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवप्राणनिरोधमस्य । लीलावतरेप्सितजन्म ना स्याद्वन्ध्यां गिरं तां बिभ्रयान्न धीरः ॥ -श्रीमद्भागवत (११/११/१९,२०) Encoded and proofread by Krishnananda Achar
$1
% Text title            : chakrastutiH
% File name             : chakrastutiH.itx
% itxtitle              : chakrastutiH (vAdirAjakRitA)
% engtitle              : chakrastutiH
% Category              : vishhnu, vAdirAja, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Vadiraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Latest update         : June 13, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org