चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्

चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्

भगवानुवाच । ॐरूपः केशवः पद्मशङ्खचक्रगदाधरः । नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ॥ १॥ ततो गदी माधवोऽरिशङ्खपद्मी नमामि तम् । चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥ २॥ मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् । शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥ ३॥ भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि । शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥ ४॥ गतिदः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि । हृपीकेशो गदी चक्री पद्मी शङ्खी च पातु नः ॥ ५॥ वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः । दामोदरः पद्मशङ्खगदाचक्री नमामि तम् ॥ ६॥ तेने गदी शङ्खचक्री वासुदेवोऽब्जभृज्जगत् । सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥ ७॥ गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत्प्रभुः । अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥ ८॥ सुरेशोऽर्यब्जशङ्खाढ्यः श्रीगदी पुरुपोत्तमः । अधोक्षजः पद्मगदी शङ्खचक्री च पातु वः ॥ ९॥ देवो नृसिंहश्चक्राब्जगदी शङ्खी नमामि तम् । अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥ १०॥ बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि । जनार्द्दनः पद्मचक्री शङ्खधारी गदाधरः ॥ ११॥ शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः । कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥ १२॥ आदिमूर्तिर्वासुदेवस्तस्मात्सङ्कर्पणोऽभवत् । सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥ १३॥ केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात् । द्वादशाक्षरकं स्तोत्रं चतुर्विंशातिमूर्त्तिमत् ॥ १४॥ यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥ १५॥ इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्त्तिस्तोत्रम् । नाम अष्टाचत्वारिंशोऽध्यायः ॥ ४८॥ अग्निपुराण । अध्याय ४८/१-१५॥ agnipurANa . adhyAya 48/1-15.. Proofread by PSA Easwaran
% Text title            : Chaturvimshatimurttimstotrakathanam
% File name             : chaturviMshatimUrttiMstotrakathanam.itx
% itxtitle              : chaturviMshatimUrttiMstotrakathanam (agnipurANAntargatam)
% engtitle              : chaturviMshatimUrttiMstotrakathanam
% Category              : vishhnu, vishnu, krishna, agnipurANa, stotra, viMshati
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : agnipurANa | adhyAya 48/1-15||
% Indexextra            : (Scans 1, 2, 3, 4, 5, English 1, 2)
% Latest update         : October 2, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org