दक्षप्रजापतिकृतं हंसगुह्यं नाम विष्णुस्तोत्रम्

दक्षप्रजापतिकृतं हंसगुह्यं नाम विष्णुस्तोत्रम्

प्रजापतिरुवाच । नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अदृष्टधाम्ने गुणतत्त्वबुद्धिभि- र्निवृत्तमानाय दधे स्वयम्भुवे ॥ २३॥ न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन् संवसतः पुरेऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टे- स्तस्मै महेशाय नमस्करोमि ॥ २४॥ देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ २५॥ यदोपरामो मनसो नामरूप- रूपस्य दृष्टस्मृतिसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥ २६॥ मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् ॥ २७॥ स वै ममाशेषविशेषमाया- निषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८॥ यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोऽत यस्य । मा भूत्स्वरूपं गुणरूपं हि तत्त- त्स वै गुणापायविसर्गलक्षणः ॥ २९॥ यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक्प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३०॥ यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१॥ अस्तीति नास्तीति च वस्तुनिष्ठयो- रेकस्थयोर्भिन्नविरुद्धधर्मयोः । अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत् ॥ ३२॥ योऽनुग्रहार्थं भजतां पादमूल- मनामरूपो भगवाननन्तः । नामानि रूपाणि च जन्मकर्मभि- र्भेजे स मह्यं परमः प्रसीदतु ॥ ३३॥ यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४॥ इति श्रीमद्भागवतमहापुराणे षष्ठस्कन्धे चतुर्थाध्यायान्तर्गतं दक्ष्रप्रजापतिकृतं विष्णुस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय ६/४/२३-३४॥ bhAgavatapurANa . adhyAya 6/4/23-34.. Proofread by PSA Easwaran
% Text title            : Dakshaprajapatikritam Hamsaguhyam Nama Vishnu Stotram
% File name             : dakShaprajApatikRRitaMhaMsaguhyaMnAmaviShNustotram.itx
% itxtitle              : haMsaguhyaMnAmaviShNustotram (dakShaprajApatikRitaM bhAgavatapurANAntargatam namaH parAyAvitathAnubhUtaye)
% engtitle              : dakShaprajApatikRRitaM haMsaguhyaMnAmaviShNustotram
% Category              : vishhnu, vishnu, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 6/4/23-34||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : September 23, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org