$1
श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्प्रपत्तिः
$1

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्प्रपत्तिः

श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । श्रीनिवासहृदयङ्गमां रमां सन्नमद्भवखिदापहारिणीम् । नित्यफुल्लसरसीरुहासनां सुस्मितां शरणमाश्रयेश्रियम् ॥ १॥ सर्वज्ञ शक्तिभिरुपेत समस्तहेतो सर्वेश सर्वगुण सर्व हरे दयालो । लक्ष्मीपते प्रणतवत्सल चक्रपाणे श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ २॥ वज्रध्वजाङ्कुश सरोरुहशङ्ख चक्रै- रेखामयैः शुभकरैः परमत्वचिन्हैः । कान्तैर्विभूषिततलौ तव देवदेव श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ३॥ अत्यर्थ मार्दवयुतैः करपल्लवैः स्वैः संवाहने विरचिते कमलाधराभ्याम् । तज्जक्लमासहनसूचकरक्तवर्णौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ४॥ ब्रह्मेशदेवपतयो नियताधिकाराः सद्यस्तरन्ति विपदो हि ययोः प्रणामात् । स्थास्नुं भजन्ति च समीहितसिद्धिमेतौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ५॥ यत्संश्रितप्रिय जनावन नित्यसक्तो देव्याश्रिया कनसि दक्षिणशेषशैले । तौ नित्यमुक्तजनभोग्यतमावुदारौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ६॥ भावत्कपूजनविधावुपयोगभाजां उत्तुङ्गसौरभभृतां तुलसीदलानाम् । स्वच्छन्दकेलिनिलयाविव भासमानौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ७॥ त्रैलोक्यविक्रमविधिप्रसितौ तदा यौ इन्द्रं बलिं त्रिभुवनं च कृतार्थयन्तौ । सर्वेशितुस्तव यशोऽपुषतां भृशं तौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ८॥ रामात्मनस्तव शिला मिथिलाप्रयाणे स्पृष्टा यदीयरजसा किल शापमुक्ता । जाता हि गौतमवधूर्बत तौ निषेव्यौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ९॥ तौ दण्डकावननिवासितपोधनानां क्षेमानुयोग पदपद्मनिषेवणार्थम् । प्रत्याश्रमं रघुप ते गमने सहायौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १०॥ है बालकृष्ण भवतो हनेनप्रसक्तं दैत्यं विपोथ्य तरसा शकटं बलाढ्यम् । रक्षाविधेस्तव दिशास्वधिरूढकीर्ति श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ११॥ सोलूखलस्य तव दामनि बद्धमूर्तेः गन्धर्वयुग्मतरुतामपनेतुमिच्छोः । है बालकृष्ण बतचङ्क्रमणे सखायौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १२॥ है वासुदेव यमुनाह्रदवासिघोर- दुष्कृत्यकालियफणावलिरङ्गमध्ये । निश्शङ्कनर्तनकृतो भवतोऽनुकूलौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १३॥ हे कृष्ण पाण्डवसख त्वरयोत्तराया गर्भं प्रविश्यभसितत्वदशान्निरस्य । सन्तानबीजमवतो भवतः सहायौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १४॥ यौ द्राविडस्य सुकवेः शठकोपसूरे- र्जिह्वाग्रपीठमधिगम्य हरे सुहृद्याम् । गाधामयीमपुषतां भवतः स्तुतिं तौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १५॥ सीताभिराममहनीय महार्हणोत्क श्रीश्रीनिवासभगवच्चरणप्रपत्तिम् । श्रीराघवोऽकृत कविः पदवित् स इत्थं गम्भीरभावरुचिरैस्सरलैः स्वपद्यैः ॥ १६॥ इति श्रीदक्षिणशेषाचलेश श्रीश्रीनिवास भगवत्प्रपत्तिः समाप्ता । Proofread by Aruna Narayanan
$1
% Text title            : Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Prapatti
% File name             : dakShiNAsheShAchaleshashrInivAsabhagavatprapattiH.itx
% itxtitle              : dakShiNasheShAchaleshashrInivAsabhagavatprapattiH
% engtitle              : dakShiNasheShAchaleshashrInivAsabhagavatprapattiH
% Category              : vishhnu, prapatti, venkateshwara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : saralakavi rAghavAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : for the Deity on the hill of Vaiyavur
% Indexextra            : (Tamil)
% Latest update         : March 20, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org