श्रीदशावतारमङ्गलाशासनम्

श्रीदशावतारमङ्गलाशासनम्

आदावम्बुजसम्भवादिविनुतः शान्तोऽच्युतः शाश्वतः सम्फुल्लामलपुण्डरीकनयनः पुण्यः पुराणः पुमान् । लोकेशः श्रुतिचोरसोमकहरो मत्स्यावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ १॥ सप्तद्वीपकुलाचलेन्द्रजलधिस्तोमाभिसङ्क्रान्तभू- भारालीढफणीन्द्रमन्दरधरो मन्दारमालार्चितः । भावज्ञो बहुचक्रलाञ्छिततनुः कूर्मावतारो हरिः श्रीमान सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ २॥ लीलालोडितसर्वसागरजलः सम्पूर्णचन्द्रप्रभो हेमाक्षासुरखण्डनो भुजगदः चक्राङ्कितः सन्ततम् । दंष्ट्राग्रोद्धृतमेदिनीभयहरः क्रोडावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ३॥ कुन्देन्दुस्फटिकप्रभो बहुभुजो भूषासहस्रोज्ज्वलो दैत्येन्द्रोदरदारणेऽतिनिपुणः स्तम्भोद्भवो भीषणः । प्रह्लादार्तिहरोदयो नरमृगाकारावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ४॥ धातृक्षालितपादपङ्कजभवस्रोतोमहाशाम्बरः प्रक्षालीकृतपादपद्मयुगलो बालो जगज्जीवनः । भिक्षार्थी बलिदर्पहा पटुवटुः खर्वावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ५॥ सद्यःखण्डितराजमण्डलशरीरोद्भूतरक्तापगा संसिक्ताखिलभूतलः पितृवचःसम्पालने निष्ठितः । वेदज्ञो जमदग्निजः परशुभृद्रामावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ६॥ राजेन्द्रो रणरङ्गराजविनुतानेकासुराभासुरा- कारो रावणकोटिखण्डनपटुः कोदण्डदीक्षागुरुः । सीतेशः सुरसज्जनामृतकरो रामावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ७॥ कालिन्दीजलभेदनो बहुभुजो भूषासमुद्भासुरः प्रध्वंसी मुसलायुधो हलधरो नीलाम्बरो निर्मलः । लावण्याप्पतिरेवतीपतिरसौ रामावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा भङ्गलम् ॥ ८॥ धर्मज्ञत्रिपुराधिनाथवनिताधर्मोपदेष्टा च त- त्पातिव्रत्यविशेषभञ्जनपरो वेदान्तवेद्यः सदा । दैत्यव्रातविनाशनादिचतुरो बुद्धावतारो हरिः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ९॥ म्लेच्छव्रातविनाशकः कलियुगान्तेऽश्वाधिरूढो महा- मायावी बहुभानुकोटिसदृशो भीमांशुचक्रायुधः । यश्चाङ्गीकृतकल्किरूपविभवो भूमौ अविष्यान्वयः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ १०॥ इति श्रीदशावतारमङ्गलाशासन सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Dashavatara Mangalashasanam 03 02
% File name             : dashAvatAramangalAshAsanam.itx
% itxtitle              : dashAvatAramaNgalAshAsanam
% engtitle              : dashAvatAramangalAshAsanam
% Category              : vishhnu, mangala, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-02
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org