देवैः कृतं ५ विष्णुस्तोत्रम्
देवा ऊचुः ।
नमो देवाधिदेवाय विष्णवेऽमिततेजसे ।
भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः ॥ ३२-२४॥
हरयेऽद्भुतसिंहाय वामनाय महात्मने ।
क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने ॥ ३२-२५॥
कूर्माय मन्दरधृते भार्गवायाब्धिशायिने ।
रामायाखिलनाथाय विश्वेशाय च साक्षिणे ॥ ३२-२६॥
दत्तात्रेयाय शुद्धाय कपिलायार्तिहारिणे ।
यज्ञाय धृतधर्माय सनकादिस्वरूपिणे ॥ ३२-२७॥
ध्रुवस्य वरदात्रे च पृथवे भूरिकर्मणे ।
ऋषभाय विशुद्धाय हयशीर्षभृतात्मने ॥ ३२-२८॥
हंसायागमरूपायामृतकुम्भविधारिणे ।
कृष्णाय वासुदेवाय सङ्कर्षणवपुर्धृते ॥ ३२-२९॥
प्रद्युम्नायानिरुद्धाय ब्रह्मणे शङ्कराय च ।
कुमाराय गणेशाय नन्दिने भृङ्गिणे नमः ॥ ३२-३०॥
गन्धमादनवासाय नरनारायणाय च ।
जगन्नाथाय नाथाय नमो रामेश्वराय च ॥ ३२-३१॥
द्वारकावासिने चैव तुलसीवनवासिने ।
नमः कमलनाभाय नमस्ते पङ्कजाङ्घ्रये ॥ ३२-३२॥
नमः कमलहस्ताय कमलाक्षाय ते नमः ।
कमलाप्रतिपालाय केशवाय नमो नमः ॥ ३२-३३॥
नमो भास्कररूपाय शशिरूपधराय च ।
लोकपालस्वरूपाय प्रजापतिवपुर्धृते ॥ ३२-३४॥
भूतग्रामस्वरूपाय जीवरूपाय तेजसे ।
जयाय जयिने नेत्रे नियमाय क्रियात्मने ॥ ३२-३५॥
निर्गुणाय निरीहाय नीतिज्ञायाक्रियात्मने ।
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च ॥ ३२-३६॥
गोविन्दाय जगद्भर्त्रेऽनन्तायाद्याय शार्ङ्गिणे ।
शङ्खिने गदिने चैव नमश्चक्रधराय च ॥ ३२-३७॥
खड्गिने शूलिने चैव सर्वशस्त्रास्त्रघातिने ।
शरण्याय वरेण्याय पराय परमात्मने ॥ ३२-३८॥
हृषीकेशाय विश्वाय विश्वरूपाय ते नमः ।
कालनाभाय कालाय शशिसूर्यदृशे नमः ।
पूर्णाय परिसेव्याय परात्परतराय च ॥ ३२-३९॥
जगत्कर्त्रे जगद्भर्त्रे जगद्धात्रेंऽतकाय च ।
मोहिने क्षोभिने कामरूपिणेऽजाय सूरिणे ॥ ३२-४०॥
भगवंस्तव सम्प्राप्ताः शरणं दैत्यतापिताः ।
तद्विधत्स्वाखिलाधार यथा हि सुखिनो वयम् ॥ ३२-४१॥
पुत्रमित्रकलत्रादिसंयुता विहरामहे ।
इति नारदपुराणे उत्तरभागे द्वात्रिंशाध्यायान्तर्गतं
देवैः कृतं विष्णुस्तोत्रं समाप्तम् ।
बृहन्नारदीयपुराण । उत्तरभाग । अध्याय ३२/२४-४१॥
bRRihannAradIyapurANa . uttarabhAga . adhyAya 32/24-41..
Proofread by PSA Easwaran