देवैः कृतं ६ विष्णुस्तोत्रम्

देवैः कृतं ६ विष्णुस्तोत्रम्

देवा ऊचुः । हृषीकेश महाबाहो भगवन् मधुसूदन । नमस्ते देवदेवेश सर्वदैत्यविनाशक ॥ ३॥ मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः । सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे ॥ ४॥ कुर्वाणानां सुराणां च मथनायोद्यमं भृशम् । बिभ्रते मन्दरगिरिं कूर्मरूपाय ते नमः ॥ ५॥ नमस्ते भगवन्नाथ क्रतवे सूकरात्मने । वसुन्धरां जनाधारां मूर्द्धतो बिभ्रते नमः ॥ ६॥ वामनाय नमस्तुभ्यमुपेन्द्राख्याय विष्णवे । विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥ ७॥ नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे । मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे ॥ ८॥ रामाय लोकरामाय मर्यादापुरुषाय ते । रावणान्तकरायाशु सीतायाः पतये नमः ॥ ९॥ नमस्ते ज्ञानगूढाय कृष्णाय परमात्मने । राधाविहारशीलाय नानालीलाकराय च ॥ ५.१६.१०॥ नमस्ते गूढदेहाय वेदनिन्दाकराय च । योगाचार्याय जैनाय बौद्धरूपाय मापते ॥ ११॥ नमस्ते कल्किरूपाय म्लेच्छानामन्तकारिणे । अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥ १२॥ नमस्ते कपिलरूपाय देवहूत्यै महात्मने । वदते साङ्ख्ययोगं च साङ्ख्याचार्याय वै प्रभो ॥ १३॥ नमः परमहंसाय ज्ञानं संवदते परम् । विधात्रे ज्ञानरूपाय येनात्मा सम्प्रसीदति ॥ १४॥ वेदव्यासाय वेदानां विभागं कुर्वते नमः । हिताय सर्वलोकानां पुराणरचनाय च ॥ १५॥ एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते । सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥ १६॥ आर्तिहन्त्रे स्वदासानां सुखदाय शुभाय च । पीताम्बराय हरये तार्क्ष्ययानाय ते नमः । सर्वक्रियायैककर्त्रे शरण्याय नमो नमः ॥ १७॥ दैत्यसन्तापितामर्त्यदुःखादिध्वंसवज्रक । शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥ १८॥ कृपासिन्धो रमानाथ पाहि नश्शरणागतान् । जलन्धरेण देवाश्च स्वर्गात्सर्वे निराकृताः ॥ १९॥ सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च । पातालान्नागराजश्च धर्मराजो निराकृतः ॥ ५.१६.२०॥ विचरन्ति यथा मर्त्याश्शोभन्ते नैव ते सुराः । शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ॥ २१॥ इति शिवपुराणे रुद्रसंहितायां युद्धखण्डे षोडशाध्यायान्तर्गतं देवैः कृतं विष्णुस्तोत्रं समाप्तम् । शिवपुराण । रुद्रसंहिता । युद्धखण्ड । अध्याय १६/३-२१॥ shivapurANa . rudrasaMhitA . yuddhakhaNDa . adhyAya 16/3-21.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam 06 Vishnu Stotram
% File name             : devaiHkRRitaM06viShNustotram.itx
% itxtitle              : viShNustotram (devaiH kRitaM 06 shivapurANAntargatam hRiShIkesha mahAbAho bhagavan madhusUdana)
% engtitle              : devaiH kRRitaM 06 viShNustotram
% Category              : vishhnu, vishnu, shivapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : shivapurANa | rudrasaMhitA | yuddhakhaNDa | adhyAya 16/3-21||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, Hindi 1, 2, 3, 4, 5, Bengali, Thesis, Kalyan 1, 2)
% Latest update         : November 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org