देवैः कृतं ७ विष्णुस्तोत्रम्
देवा ऊचुः ।
नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने ।
नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ॥ १३॥
नमो हरस्वरूपाय भूतसंहारकारिणे ।
निर्गुणाय नमस्तुभ्यं शिवायामिततेजसे ॥ १४॥
अवस्थारहितायाथ निर्विकाराय वर्चसे ।
महाभूतात्मभूताय निर्लिप्ताय महात्मने ॥ १५॥
नमस्ते भूतपतये महाभारसहिष्णवे ।
तृष्णाहराय निर्वैराकृतये भूरितेजसे ॥ १६॥
महादैत्यमहारण्यनाशिने दाववह्नये ।
दैत्यद्रुमकुठाराय नमस्ते शूलपाणये ॥ १७॥
महादनुजनाशाय नमस्ते परमेश्वर ।
अम्बिकापतये तुभ्यं नमस्सर्वास्त्रधारक ॥ १८॥
नमस्ते पार्वतीनाथ परमात्मन्महेश्वर ।
नीलकण्ठाय रुद्राय नमस्ते रुद्ररूपिणे ॥ १९॥
नमो वेदान्तवेद्याय मार्गातीताय ते नमः ।
नमो गुणस्वरूपाय गुणिने गुणवर्जिते ॥ ५.२.२०॥
महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च ।
प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः ॥ २१॥
सङ्कर्षणाय देवाय नमस्ते कंसनाशिने ।
चाणूरमर्दिने तुभ्यं दामोदर विषादिने ॥ २२॥
हृषीकेशाच्युत विभो मृड शङ्कर ते नमः ।
अधोक्षज गजाराते कामारे विषभक्षण ॥ २३॥
नारायणाय देवाय नारायणपराय च ।
नारायणस्वरूपाय नाराणयतनूद्भव ॥ २४॥
नमस्ते सर्वरूपाय महानरकहारिणे ।
पापापहारिणे तुभ्यं नमो वृषभवाहन ॥ २५॥
क्षणादिकालरूपाय स्वभक्तबलदायिने ।
नानारूपाय रूपाय दैत्यचक्रविमर्दिने ॥ २६॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च ॥ २७॥
धर्मरूपाय सत्त्वाय नमस्सत्त्वात्मने हर ।
वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ॥ २८॥
नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः ।
सदाचाराध्वगम्याय सदाचाराध्वगामिने ॥ २९॥
विष्टरश्रवसे तुभ्यं नमस्सत्यमयाय च ।
सत्यप्रियाय सत्याय सत्यगम्याय ते नमः ॥ ५.२.३०॥
नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः ।
ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च ॥ ३१॥
तपसे ते नमोऽस्त्वीश तपसां फलदायिने ।
स्तुत्याय स्तुतये नित्यं स्तुतिसम्प्रीतचेतसे ॥ ३२॥
श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च ।
चतुर्विधस्वरूपाय जलस्थलजरूपिणे ॥ ३३॥
सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः ।
देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः ॥ ३४॥
सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् ।
श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः ॥ ३५॥
शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह ।
क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान् ॥ ३६॥
वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शङ्कर ।
मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान् ॥ ३७॥
उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर ।
कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा ॥ ३८॥
भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि ।
पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु सम्मतः ॥ ३९॥
शालग्रामशिला च त्वं शिलासु वृषभध्वज ।
पूज्यरूपेषु सर्वेषु नर्मदालिङ्गमेव हि ॥ ५.२.४०॥
नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर ।
वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान् ॥ ४१॥
प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् ।
भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च ॥ ४२॥
प्रणवो बीजमन्त्राणां दारुणानां विषं भवान् ।
व्योमव्यप्तिमतां त्वं वै परमात्मासि चात्मनाम् ॥ ४३॥
इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् ।
पावनानां जलं चासि जीवनानां तथामृतम् ॥ ४४॥
लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि ।
नित्यकर्मसु सर्वेषु सन्ध्योपास्तिर्भवान्मता ॥ ४५॥
क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः ।
पुष्यस्त्वं सर्वधिष्ण्यानाममावास्या तिथिष्वसि ॥ ४६॥
सर्वर्तुषु वसन्तस्त्वं सर्वपर्वसु सङ्क्रमः ।
कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः ॥ ४७॥
योगेषु च व्यतीपातस्सोमवल्ली लतासु च ।
बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान् ॥ ४८॥
साधकानां शुचीनां त्वं प्राणायामो महेश्वर ।
ज्योतिर्लिङ्गेषु सर्वेषु भवान् विश्वेश्वरो मतः ॥ ४९॥
धर्मस्त्वं सर्वबन्धूनामाश्रमाणां परो भवान् ।
मोक्षस्त्वं सर्ववर्णेषु रुद्राणां नीललोहितः ॥ ५.२.५०॥
आदित्यानां वासुदेवो हनूमान्वानरेषु च ।
यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान् ॥ ५१॥
गन्धर्वाणां चित्ररथो वसूनां पावको ध्रुवम् ।
मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी ॥ ५२॥
ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः ।
अनन्तस्त्वं हि नागानां पितॄणामर्यमा भवान् ॥ ५३॥
कालः कलयतां च त्वं दैत्यानां बलिरेव च ।
किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत् ॥ ५४॥
एकाङ्शेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च ॥ ५५॥
इति शिवपुराणे रुद्रसंहितायां युद्धखण्डे द्वितीयाध्यायान्तर्गतं
देवैः कृतं विष्णुस्तोत्रं समाप्तम् ।
शिवपुराण । रुद्रसंहिता । युद्धखण्ड । अध्याय २/१३-५५॥
shivapurANa . rudrasaMhitA . yuddhakhaNDa . adhyAya 2/13-55..
Proofread by PSA Easwaran