देवैः कृतं १४ विष्णुस्तोत्रम्

देवैः कृतं १४ विष्णुस्तोत्रम्

देवा ऊचुः । नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१॥ यत्ते गतीनां तिसृणामीशितुः परमं पदम् । नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२॥ ॐ नमस्तेऽस्तु भगवन् नारायण वासुदेवाऽऽदिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावित- परिस्फुटपारमहंस्यधर्मेणोद्घाटिततमः- कपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३॥ दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्म- त्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ ३४॥ अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृत- कुशलाकुशलं फलमुपाददात्याहोस्वि- दात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ ३५॥ न हि विरोध उभयं भगवत्यपरिमित- गुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीन- विकल्पवितर्कविचारप्रमाणाभासकुतर्क- शास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६॥ समविषममतीनां मतमनुसरसि यथा । रज्जुखण्डः सर्पादिधियाम् ॥ ३७॥ स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८॥ अथ ह वाव तव महिमामृतरससमुद्र- विप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारित- दृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रिय- सुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ ३९॥ त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामनुपक्रम- समयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभि- र्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४०॥ अस्माकं तावकानां तव नतानां तत ततामह तव चरणनलिनयुगलध्याना- नुबद्धहृदयनिगडानां स्वलिङ्गविवरणेना- त्मसात्कृतानामनुकम्पानुरञ्जितविशद- रुचिरशिशिरस्मितावलोकेन विगलित- मधुरमुखरसामृतकलया चान्तस्ताप- मनघार्हसि शमयितुम् ॥ ४१॥ अथ भगवंस्तवास्माभिरखिलजग- दुत्पत्तिस्थितिलयनिमित्तायमानदिव्य- मायाविनोदस्य सकलजीवनिकायाना- मन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्म- स्वरूपेण प्रधानरूपेण च यथादेशकाल- देहावस्थानविशेषं तदुपादानो- पलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ ४२॥ अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशत- पलाशच्छायां विविधवृजिनसंसार- परिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ ४३॥ अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४॥ हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्त- वन्ते परीष्टगतये हरये नमस्ते ॥ ४५॥ इति श्रीमद्भागवतमहापुराणे षष्ठस्कन्धे नवमाध्यायान्तर्गतं देवैः कृतं विष्णुस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय ६/९/३१-४५॥ bhAgavatapurANa . adhyAya 6/9/31-45.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam 14 Vishnu Stotram
% File name             : devaiHkRRitaM14viShNustotram.itx
% itxtitle              : viShNustotram (devaiH kRitaM 14 bhAgavatapurANAntargatam namaste yajnavIryAya vayase uta te namaH)
% engtitle              : devaiH kRRitaM 14 viShNustotram
% Category              : vishhnu, vishnu, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 6/9/31-45||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : September 23, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org