देवैः कृतं १९ विष्णुस्तोत्रम्
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥ १॥ ३२.२९॥
तुष्टुवुश्च जगन्नाथं देवं नारायणं हरिम् ।
जय देव जगन्नाथ जय देव जनार्दन ॥ २॥
जय देव प्रभो विष्णो जय शङ्खगदाधर ।
नमस्तुभ्यं हृषीकेश नमो देव जनार्दन ॥ ३॥
आदिदेव जगन्नाथ भूतभावनभावन ।
नमस्तुभ्यं प्रभो विष्णो भूतादिपतये नमः ॥ ४॥
नम आद्याय बीजाय पुरुषाय नमो नमः ।
नमोऽस्तु ते जगन्नाथ नमो भूयो महात्मने ॥ ५॥
किं वानेन जगन्नाथ नमस्कारेण केशव ।
रक्ष नः सकलान् देवान् दैत्यपाशविपाशितान् ॥ ६॥
इति हरिवंशान्तर्गतं देवैः कृतं विष्णुस्तोत्रं सम्पूर्णम् ।
हरिवंश । अध्याय ३२.२९॥
harivaMsha . adhyAya 32.29..
Proofread by PSA Easwaran