देवैः कृतं २० विष्णुस्तोत्रम्
तमन्वयुर्देवगणा मुनयश्च समाहिताः ।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम् ॥ ३४.४७॥
नमस्तेऽस्तु हृषीकेश जहि दैत्यबलं विभो ।
नमस्त्रिमूर्तये तुभ्यं हरिब्रह्मशिवात्मने ॥ १॥
नमस्त्रैविद्यरूपाय ऋक्सामयजुषे नमः ।
नमोऽस्तु योगिचिन्त्याय तेषां योगप्रदायिने ॥ २॥
नमो विकल्पशून्याय नमो विज्ञप्तिरूपिने ।
यं च ज्ञानमयं तेजः प्रवदन्ति मनीषिणः ॥ ३॥
तं नताः स्म जगन्नाथं जहि दैत्यगणान् हरे ।
त्वां स्तोतुं हि वयं देव शक्ता वर्षशतैरपि ।
न हि देव जगन्नाथ जयस्व पुरुषोत्तम ॥ ४॥
इति हरिवंशान्तर्गतं देवैः कृतं विष्णुस्तोत्रं सम्पूर्णम् ।
हरिवंश । अध्याय ३४.४७॥
harivaMsha . adhyAya 34.47..
Proofread by PSA Easwaran