देवैः कृतं २१ विष्णुस्तोत्रम्
देवा ऊचुः ।
त्वत्प्रसादेन भगवंस्तव बाहुबलेन च ।
नताः स्मो देवदेवेश त्वां वयं शरणं गताः ॥ १॥
नताः स्मो विष्णुं सकलं निष्कलं भूतभावनम् ।
नताः स्मो विष्णुं देवेशं शङ्खचक्रगदाधरम् ॥ २॥
नताः स्मो भूतभव्येशमीड्यमदिगुरुं हरिम् ।
नताः स्मो वरुणं देवमर्चितं भुवनेश्वरम् ॥ ३॥
नताः स्मः प्रेताधिपतिं कुबेरं देवसत्तमम् ।
नमस्तुभ्यं जगन्नाथ सनातन जगत्पते ॥ ४॥
नमः सर्वात्मने तुभ्यं सर्वकर्त्रे नमो नमः ।
नम आद्याय बीजाय प्रधानाय जगत्पते ॥ ५॥
नमः स्रष्टे नमो हर्त्रे नमः कर्त्रे जगत्पते ।
नमो गोप्त्रे जगन्नाथ नमः स्थात्रे नमो नमः ॥ ६॥
यं प्राप्य न निवर्तन्ते योगिनो यतचेतसः ।
तस्मै तुभ्यं प्रधानात्मन् सर्वाय जगतः पते ॥ ७॥
सर्वेश भूतभव्येश सर्वलोकनमस्कृत ।
प्रासीद देवदेवेश भक्तानामभयंकर ॥ ८॥
जीवामोऽद्य महाबाहो निष्क्रान्ताश्चन्तकाननात् ।
त्वच्छासनाद्धि भगवन् किं कुर्वन्त्वदितेः सुताः ।
इच्छामः पादशुश्रूषां तव कर्तुं सनातन ॥ ९॥
इति हरिवंशान्तर्गतं देवैः कृतं विष्णुस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ४२.६१३॥
harivaMsha . anubandha - parishiShTa . adhyAya a42.613..
Proofread by PSA Easwaran