देवैः कृतं श्रीकृष्णस्तोत्रम्
ते च देवाः समुनयो हते कंसे दुरात्मनि ।
नमस्कृत्य जगन्नाथं स्वं स्वं जग्मुर्यथाऽऽलयम् ॥ १॥
तुष्टुवुः पुण्डरीकाक्षं कृष्णं विजयिनं विभुम् ।
हत्वा पूतानिकां विभज्य शकटं बङ्क्त्वार्जुनौ दानवान् ॥ २॥
सप्ताहत्य विनाश्य कालियविषं निष्पीड्य रिष्टेतरम् ।
हत्वा केशिनमुन्मदं विषतरुं चोद्धृत्य गोवर्धनं ॥ ३॥
यः कंसं सगजेन्द्रमल्लमवधीत्तस्मै नमो विष्णवे ।
प्रलम्बधेनुकप्राणहारिणे मुष्टिकद्विषे ।
सुनामोन्माथिने नित्यं धीमते हलिने नमः ॥ ४॥
इति हरिवंशान्तर्गतं देवैः कृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अध्याय ७६.४६॥
harivaMsha . adhyAya 76.46..
Proofread by PSA Easwaran