श्री देवनाथ प्रपत्तिः

श्री देवनाथ प्रपत्तिः

श्रीः । श्रीमते रामानुजाय नमः । श्रीमद् वरवर मुनये नमः । श्रीमद् वानमहाचल गुरुभ्यो नमः । अथ श्रीदेवनाथ प्रपत्तिः । श्रीवरमङ्कामातुः दिव्यकटाक्ष प्रभावपरिपूर्णः । श्रीदेवनाथपाद पयोजयुग्मप्रपत्ति माकलये ॥ १॥ श्रीमत्पराङ्कुशमुनिर्द्रविडश‍ृतीनां द्रष्टा प्रपन्नकुलकूट विभास्वरो यौ । क्षेमङ्करौ त्रिजगतां शरणं गतस्तौ श्रीदेवनाथ चरणौ शरणं प्रपद्ये ॥ २॥ अस्मन्महाकुलगुरुः शठकोपसूरिः यद्भोग्यतातिशय विस्मृत भिन्नवेद्यः । श्रीपादुकापदमवाप्य विराजते तौ श्रीदेवनाथ चरणौ शरणं प्रपद्ये ॥ ३॥ दैत्यापहार जलमग्नधरोधृतिं प्राक् देवश्चकार धृतकोलतनुर्यदासौ । मेरुर्यदीयखुरकिङ्किणिवन्ननाद तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ ४॥ श्रीशो बलेः कुहकवामन भावजुष्टः गत्वाध्वरं तमवनीसुवनीपकः सन् । याभ्यां भुवं दिवमपि क्रमते स्म पूर्वं तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ ५॥ यौ दण्डकामुनिजनानुजिघृक्षयैव यात्वा तदाश्रमपदानि पुरापुनीताम् । आसाद्य वानगिरिमद्य च नः पुनीतः तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ ६॥ अम्बामनुदृतवतीमतिकोपनां यौ अपाद्य विस्मयवशां निजचङ्क्रमेण । स्तब्धां वितेनतुरलं नवनीतचौर्ये तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ ७॥ यौ मानसेषु यमिनां कमलाशुभाङ्के भातस्तथैव वरमूर्धनि चोर्ध्वपुम्साम् । वृन्दावने व्यहरतां भवने च गोप्याः तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ ८॥ दूत्यप्रसङ्गगमने हि पृथासुतार्थे प्रेमान्धभावशगा वचलस्थलज्ञौ । यौ शम्सतो भगवतः श्रितवत्सलत्वं तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ ९॥ वज्रध्वजाङ्कुश सुधाकलशातपत्र कल्पदृमाङ्किततलौ कमनीयशोभौ । देवीकरैरपि भयादुपमृद्यमानौ देवाधिनाथ चरणौ शरणं प्रपद्ये ॥ १०॥ सायुज्यमाप्य यदपाश्रय पादुकाभ्यां सर्वोत्तमङ्गधरणं भजते शठारिः । सर्वेष्टदौ हृदयवागतिगप्रभावौ तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ ११॥ यौ तस्थतुर्यतिपतेर्यवनापहारे सम्सेविते भगवति दृतमङ्कमेत्य । सम्पत्सुतत्वमपि तस्य समादधातां तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ १२॥ श्रीरङ्गधामनि शठारि सहस्रगीतेः श्रोतुं गुरोर्विवरणं रुचिरोपयन्तुः । गर्भालयाद्गरुडमण्डपमागतौ यौ तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ १३॥ श्रीवेङ्कटक्षितिराद्वरवल्लिमङ्कां श्रीवानशैलमुनिना समुपाहृतां यौ । उद्वोढुमत्वरयुतां वरमाशुगत्या तौ देवनाथ चरणौ शरणं प्रपद्ये ॥ १४॥ श्रीभूमिभानुविधुदेववधूयुगैश्च श्रीमन्मृकण्डुसुत भार्गववैनतेयै । सेनाधिपतेन लसतः फणिनाथभोगे वानाचलस्य चरणौ शरणं प्रपद्ये ॥ १५॥ सिम्हासने मणिमये कमलामहिभ्यां देव्या जगज्जनिकया वरमङ्कया च । श्रीविष्णुचित्तसुतया च सम विभातः देवाधिपस्य चरणौ शरणं प्रपद्ये ॥ १६॥ देवाधिनाथपदयोः गोपालार्यकृतामिमाम् । प्रपत्तिं पठतां नित्यं प्रसीदतु रमापतिः ॥ ॥ इति श्रीदेवनाथप्रपत्तिः समाप्ता ॥
% Text title            : Devanatha Prapattih
% File name             : devanAthaprapattiH.itx
% itxtitle              : devanAthaprapattiH
% engtitle              : devanAthaprapattiH
% Category              : vishhnu, prapatti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Gopala Ayyangar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : TCA Venkatesan
% Proofread by          : TCA Venkatesan
% Acknowledge-Permission: http://raghavanhema.blogspot.com/2011/03/srivaishnava-sampradhaya-books.html acharya.org
% Latest update         : June 3, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org