देवनायकपञ्चाशत्स्तवः

देवनायकपञ्चाशत्स्तवः

श्रीवेदान्तदेशिककृतः । (तिरुवहीन्द्रपुरे) प्रणतसुरकिरीटप्रान्तमन्दारमाला विगलितमकरन्दस्निग्धपादारविन्दः । पशुपतिविधिपूज्यः पद्मपत्रायताक्षः फणिपतिपुरनाथः पातु मां देवनाथः ॥ १॥ देवाधिनाथ कमलापृतनेशपूर्वां दीप्तान्तरां वकुलभूषणनाथमुख्यैः । रामानुजप्रभृतिभिः परिभूषिताग्रां गोप्त्रीं जगन्ति गुरुपङ्क्तिमहं प्रपद्ये ॥ २॥ दिव्ये दयाजलनिधौ दिविषन्नियन्तुः तीर्थं निदर्शितवतस्त्रिजगन्निषेव्यम् । प्राचः कवीन् निगमसम्मितसूनृतोक्तीन् प्राचेतसप्रभृतिकान् प्रणमाम्यभीक्ष्णम् ॥ ३॥ मातस्त्वमम्बुरुहवासिनि किञ्चिदेतत् विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् । आकर्णयिष्यति यथा विबुधेश्वरस्ते प्रेयानसौ पृथुकजल्पितवन्मदुक्तिम् ॥ ४॥ निर्विश्यमानविभवं निगमोत्तमाङ्गैः स्तोतुं क्षमं मम च देवपते भवन्तम् । गावः पिबन्तु गणशः कलशाम्बुराशिं किं तेन तर्णकगणास्तृणमाददानाः ॥ ५॥ अज्ञातसीमकमनन्तगरुत्मदाद्यैः तं त्वां समाधिनियतैरपि सामि दृष्टम् । तुष्टूषतो मम मनोरथसिद्धिदायी दासेषु सत्य इति धारय नामधेयम् ॥ ६॥ विश्राणयन्मम विशेषविदामनिन्द्यां अन्तर्वतीं गिरमहीन्द्रपुराधिराज । स्तव्यस्तवप्रिय इतीव तपोधनोक्तं स्तोतेति च त्वदभिधानमवन्ध्यय त्वम् ॥ ७॥ संरक्षणीयममराधिपते त्वयैव दूरं प्रयातमपि दुस्त्यजगाढबन्धम् । आकृष्टवानसि भवाननुकम्पमानः सूत्रानुबद्धशकुनिक्रमतः स्वयं माम् ॥ ८॥ व्यामोहिता विविधभोगमरीचिकाभिः विश्रान्तमद्य लभते विबुधैकनाथ । गम्भीरपूर्णमधुरं मम धीर्भवन्तं ग्रीष्मे तटाकमिव शीतमनुप्रविष्टा ॥ ९॥ दिव्ये पदे जलनिधौ निगमोत्तमाङ्गे स्वान्ते सतां सवितृमण्डलमध्यभागे । ब्रह्माचले च बहुमानपदे मुनीनां व्यक्तिं तव त्रिदशनाथ वदन्ति नित्याम् ॥ १०॥ तीर्थैर्वृतं वृजिनदुर्गतिनाशनार्हैः शेषक्षमाविहगराजविरिञ्चजुष्टैः । नाथ त्वया नतजनस्य भवौषधेन प्रख्यातमौषधगिरिं प्रणमन्ति देवाः ॥ ११॥ स्वाधीनविश्वविभवं भगवन् विशेषात् त्वां देवनायकमुशन्ति परावरज्ञाः । प्रायः प्रदर्शयितुमेतदिति प्रतीमः त्वद्भक्तिभूषितधियामिह देवभावम् ॥ १२॥ तत्त्वानि यानि चिदचित्प्रविभागवन्ति त्रय्यन्तवृद्धगणितानि सितासितानि । दीव्यन्ति तान्यहिपुरन्दरधामनाथ दिव्यास्त्रभूषणतया तव विग्रहेऽस्मिन् ॥ १३॥ भूषायुधैरधिगतं निजकान्तहेतोः भुक्तं प्रियाभिरनिमेषविलोचनाभिः । प्रत्यङ्गपूर्णसुषमासुभगं वपुस्ते दृष्ट्वा दृशौ विबुधनाथ न तृप्यतो मे ॥ १४॥ वेदेषु निर्जरपते निखिलेष्वधीतं व्यासादिभिर्बहुमतं तव सूक्तमग्र्यम् । अङ्गान्यमूनि भवतः सुभगान्यधीते विश्वं विभो जनितवन्ति विरिञ्चपूर्वम् ॥ १५॥ देवेश्वरत्वमिह दर्शयितुं क्षमस्ते नाथ त्वयापि शिरसा विधृतः किरीटः । एकीकृतद्युमणिबिम्बसहस्रदीप्तिः निर्मूलयन् मनसि मे निबिडं तमिस्रम् ॥ १६॥ मुग्धस्मितामृतशुभेन मुखेन्दुना ते सङ्गम्य संसरणसञ्ज्वरशान्तये नः । सम्पद्यते विबुधनाथ समाधियोग्या शर्वर्यसौ कुटिलकुन्तलकान्तरूपा ॥ १७॥ बिम्बाधरं विकचपङ्कजलोचनं ते लम्बालकं ललितकुण्डलदर्शनीयम् । कान्तं मुखं कनककैतककर्णपूरं स्वान्तं विभूषयति देवपते मयीयम् ॥ १८॥ लब्धा तिथौ क्वचिदियं रजनीकरेण लक्ष्मीः स्थिरा सुरपते भवतो ललाटे । यत्स्वेदबिन्दुकणिकोद्गतबुद्बुदान्तः त्र्यक्षः पुरा स पुरुषोऽजनि शूलपाणिः ॥ १९॥ लावण्यवर्षिणि ललाटतटे घनाभे बिभ्रत्तटिद्गुणविशेषमिवोर्ध्वपुण्ड्रम् । विश्वस्य निर्जरपते तमसाऽऽवृतस्य मन्ये विभावयसि माङ्गलिकप्रदीपम् ॥ २०॥ आहुः श्रुतिं विबुधनायक तावकीनां आशागणप्रसवहेतुमधीतवेदाः । आकर्णिते तदियमार्तरवे प्रजानां आशाः प्रसाधयितुमादिशति स्वयं त्वाम् ॥ २१॥ कन्दर्पलाञ्छनतनुस्त्रिदशैकनाथ कान्त प्रवाहरुचिरे तव कर्णपाशे । पुष्यत्यसौ प्रतिमुखस्थितिदर्शनीया पूषामयी मकरिका विविधान् विहारान् ॥ २२॥ नेतुं सरोजवसतिर्निजमाधिराज्यं नित्यं निशामयति देवपते भ्रुवौ ते । एवं न चेदखिलजन्तु विमोहनार्हा किं मातृका भवति कामशरासनस्य ॥ २३॥ आलक्ष्य सत्त्वमतिवेलदयोत्तरङ्गं अभ्यर्थिनामभिमतप्रतिपादनार्हम् । स्निग्धायतं प्रथिमशालि सुपर्वनाथ दुग्धाम्बुधेरनुकरोति विलोचनं ते ॥ २४॥ विश्वाभिरक्षणविहारकृतक्षणैस्ते वैमानिकाधिपविडम्बितमुग्धपद्मैः । आमोदवाहिभिरनामयवाक्यगर्भैः आर्द्रीभवाम्यमृतवर्षनिभैरपाङ्गैः ॥ २५॥ नित्योदितैर्निगमनिःश्वसितैस्तवैषा नासा नभश्चरपते नयनाब्धिसेतुः । आम्रेडितप्रियतमा मुखपद्मगन्धैः आश्वासिनी भवति सम्प्रति मुह्यतो मे ॥ २६॥ आरुण्यपल्लवितयौवनपारिजातं आभीरयोषिदनुभूतममर्त्यनाथ । वंशेन शङ्खपतिना च निषेवितं ते बिम्बाधरं स्पृशति रागवती मतिर्मे ॥ २७॥ पद्मालया वलयदत्तसुजातरेखे त्वत्कान्तिमेचकितशङ्खनिभे मतिर्मे । विस्मेरभावरुचिरा वनमालिकेव कण्ठे गुणीभवति देवपते त्वदीये ॥ २८॥ आजानुलम्बिभिरलङ्कृतहेतिजालैः ज्याघातराजिरुचिरैर्जितपारिजातैः । चित्राङ्गदैस्त्रिदशपुङ्गव जातसङ्गा त्वद्बाहुभिर्मम दृढं परिररभ्यते धीः ॥ २९॥ नीलाचलोदितनिशाकरभास्कराभे शान्ताहिते सुरपते तव शङ्खचक्रे । पाणेरमुष्य भजतामभयप्रदस्य प्रत्यायनं जगति भावयतः स्वभूम्ना ॥ ३०॥ अक्षोभणीयकरुणाम्बुधिविद्रुमाभं भक्तानुरञ्जनममर्त्यपते त्वदीयम् । नित्यापराधचकिते हृदये मदीये दत्ताभयं स्फुरति दक्षिणपाणिपद्मम् ॥ ३१॥ दुर्दान्तदैत्यविशिखक्षतपत्रभङ्गं वीरस्य ते विबुधनायक बाहुमध्यम् । श्रीवत्सकौस्तुभरमावनमालिकाङ्कं चिन्ताऽनुभूय लभते चरितार्थतां नः ॥ ३२॥ वर्णक्रमेण विबुधेश विचित्रिताङ्गी स्मेरप्रसूनसुभगा वनमालिकेयम् । हृद्या सुगन्धिरजहत्कमलामणीन्द्रा नित्या तव स्फुरति मूर्तिरिव द्वितीया ॥ ३३॥ आर्द्रं तमोमथनमाश्रिततारकं ते शुद्धं मनः सुमनसाममृतं दुहानम् । तत्तादृशं विबुधनाथ समृद्धकामं सर्गेष्विदं भवति चन्द्रमसां प्रसूतिः ॥ ३४॥ विश्वं निगीर्य विबुधेश्वर जातकार्यं मध्यं वलित्रयविभाव्यजगद्विभागम् । आमोदिनाभिनलिनस्थविरिञ्चभृङ्गं आकल्पयत्युदरबन्ध इवाशयो मे ॥ ३५॥ नाकौकसां प्रथमतामधिकुर्वते ते नाभीसरोजरजसां परिणामभेदाः । आराधयद्भिरिह तैर्भवतः समीची वीरोचिता विबुधनायक इत्यभिख्या ॥ ३६॥ पीताम्बरेण परिवारवती सुजाता दास्ये निवेशयति देवपते दृशौ मे । विन्यस्तसव्यकरसङ्गमजायमान- रोमाञ्चरम्यकिरणा रशना त्वदीया ॥ ३७॥ स्त्रीरत्नकारणमुपात्ततृतीयवर्णं दैत्येन्द्रवीरशयनं दयितोपधानम् । देवेश यौवनगजेन्द्रकराभिरामं ऊरीकरोति भवदूरुयुगं मनो मे ॥ ३८॥ लावण्यपूरललितोर्ध्वपरिभ्रमाभं लक्ष्मीविहारमणिदर्पणबद्धसख्यम् । गोपाङ्गणेषु कृतचङ्क्रमणं तवैतत् जानुद्वयं सुरपते न जहाति चित्तम् ॥ ३९॥ दूत्ये दुकूलहरणे व्रजसुन्दरीणां दैत्यानुधावनविधावपि लब्धसाह्यम् । कन्दर्पकाहलनिषङ्गकलाचिकाभं जङ्घायुगं जयति देवपते त्वदीयम् ॥ ४०॥ पाषाणनिर्मिततपोधनधर्मदारं भस्मन्युपाहितनरेन्द्रकुमारभावम् । संवाहितं त्रिदशनाथ रमामहीभ्यां सामान्यदैवतमुशन्ति पदं त्वदीयम् ॥ ४१॥ आवर्जिताभिरनुषज्य निजांशुजालैः देवेश दिव्यपदपद्मदलायिताभिः । अन्याभिलाषपरिलोलमिदं मदीयं अङ्गीकृतं हृदयमङ्गुलिभिः स्वयं ते ॥ ४२॥ पङ्कान्यसौ मम निहन्ति महस्तरङ्गैः गङ्गाधिकां विदधती गरुडस्रवन्तीम् । नाकौकसां मणिकिरीटगणैरुपास्या मान्यं पदं भवतु मौलिविभूषणं नः ॥ ४४॥ चित्रं त्वदीयपदपद्मपरागयोगाद्- योगं विनापि युगपद्विलयं प्रयान्ति । विष्वञ्चि निर्जरपते शिरसि प्रजानां वेधः स्वहस्तलिखितानि दुरक्षराणि ॥ ४५॥ ये जन्मकोटिभिरुपार्जितशुद्धधर्माः तेषां भवच्चरणभक्तिरतीव भोग्या । त्वज्जीवितैस्त्रिदशनायक दुर्लभैस्तैः आत्मानमप्यकथयः स्वयमात्मवन्तम् ॥ ४६॥ निष्कञ्चनत्व धनिना विबुधेश येन न्यस्तः स्वरक्षणभरस्तव पादपद्मे । नानाविधप्रथितयोगविशेषधन्याः नार्हन्ति तस्य शतकोटितमांशकक्ष्याम् ॥ ४७॥ आत्मापहाररसिकेन मयैव दत्तं अन्यैरधार्यमधुना विबुधैकनाथ । स्वीकृत्य धारयितुमर्हसि मां त्वदीयं चोरोपनीतनिजनूपुरवत् स्वपादे ॥ ४८॥ अज्ञानवारिधिमपायधुरन्धरं मां आज्ञाविभञ्जनमकिञ्चनसार्वभौमम् । विन्दन् भवान् विबुधनाथ समस्तवेदी किं नाम पात्रमपरं मनुते कृपायाः ॥ ४९॥ प्रह्लादगोकुलगजेन्द्रपरीक्षिदाद्याः त्रातास्त्वया ननु विपत्तिषु तादृशीषु । सर्वं तदेकमपरं मम रक्षणं ते सन्तोल्यतां त्रिदशनायक किं गरीयः ॥ ५०॥ वात्याशतैर्विषयरागतया विवृत्तैः व्याघूर्णमानमनसं विबुधाधिराज । नित्योपतप्त इति मां निजकर्मघर्मैः निर्वेशय स्वपदपद्ममधुप्रवाहम् ॥ ५१॥ जय विबुधपते त्वं दर्शिताभीष्टदानः सह सरसिजवासामेदिनीभ्यां वशाभ्याम् । नलवनमिव मृद्गन् पापराशिं नतानां गरुडसरिदनूपे गन्धहस्तीव दीव्यन् ॥ ५२॥ निरवधिगुणजातं नित्यनिर्दोषमाद्यं नरकमथन दक्षं नाकिनामेकनाथम् । विनतविषयसत्यं वेङ्कटेशः कविस्त्वां स्तुतिपदमधिगच्छन् शोभते सत्यवादी ॥ ५३॥ इति श्रीवेदान्तदेशिककृतः देवनायकपञ्चाशत्स्तवः सम्पूर्णः । This is the first stotra sung by vedAnta deshika in praise of an archamUrti (Icon in a Temple). Lord devanAtha of Tiruvahindrapuram, by whose blessings and under whose fostering care ve~NkaTanatha emerged as an AchArya of the first magnitude, appears to have commanded deshika to sing about Him “on the pattern of the ancient vedas”. His having fulfilled that command by singing in Sanskrit, Prakrit and Tamil is mentioned at the end of Navamanimalai, one of his Tamil poems. devanAyaka pa~nchAshat is the first among them. The great love and fascination of deshika towards devanAtha can be seen reflected in almost every shloka here. shlokas 99 to 129 indulge in a close description and intimate enjoyment of the Lord’s Form (Body) from head to foot. At times the poet becomes erotic and love-lorn (shlokas 102 and 112). That perhaps explains why this stotra is named devanAyaka pa~nchAshat instead of devanAtha pa~nchAshat. deshika as nAyikA (lady love) can seek fulfilment only in a nAyaka (lover). Moreover the Alwar who has sung about this Lord has called Him Deivanayakan. Its sanskrit form is devanAyaka. The Alwar has also referred to this Perumal as Adiyavarkku meyyan—one who is true to His devotees. deshika refers to the Lord by this name also often. The first and last words of the stotra put together spell out the same name - (praNatasatyavAdI)-प्रणत सत्यवादी Proofread by PSA Easwaran
% Text title            : devanAyakapanchAshatstavaH
% File name             : devanAyakapanchAshatstavaH.itx
% itxtitle              : devanAyakapanchAshatstavaH (vedAntadeshikavirachitaH)
% engtitle              : devanAyakapanchAshatstavaH
% Category              : vishhnu, panchAshata, vedAnta-deshika, vishnu, stava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (Scans 1, 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org