देविकाकृतं बालकृष्णस्तोत्रम्
पृष्टवाँस्तां लोमशो वै का त्वं पुराऽधुनाऽपि च ।
कमला वा सती भक्तिः सावित्री काऽसि कन्यके ॥ ३५॥
देवता वा संहिता वा गृहगोधोत्थविग्रहा ।
का त्वं कल्याणसंस्थाना वद सन्देहनाशिनि ॥ ३६॥
पृष्टैवं सा बद्रिके सञ्जगाद शृण्वतां सताम् ।
सभाजनानां सर्वेषां मेघगम्भीरया गिरा ॥ ३७॥
``नमो वोऽस्तु समस्तेभ्यो व्यासाय ते नमोऽस्तु च ।
श्रीसंहितास्वरूपायै लक्ष्म्यै देव्यै नमो नमः ॥ ३८॥
लक्ष्मीनारायणायाऽत्र कृष्णकान्ताय वै नमः ।
लोमशाय गुरवे च मोक्षदाय नमो नमः ॥ ३९॥
सर्वर्षिभ्यश्च साधुभ्यः साध्वीभ्यश्च नमो नमः ।
नमो मात्रे महाराज्ञ्यै महाराजाय वै नमः ॥ ४०॥
वैष्णवेभ्यः समस्तेभ्यः कथाश्रोतृभ्य ॐ नमः ।
नमो मण्डपदेवेभ्यो देवीभ्यश्च नमो नमः ॥ ४१॥
मुक्तमुक्तानिकाभ्यश्च सर्वेभ्यश्च नमो नमः'' ।
क्षमध्वं चापराधान्मे दोषान् क्षमध्वमीश्वराः ॥ ४२॥
साधवो ऋषयः सर्वे राजा राज्ञी च वैष्णवाः ।
सखीजनाः सखायश्च क्षमध्वं मेऽपराधकान् ॥ ४३॥
अहं नाणकिनीनाम्नी खवासिनी पुराऽभवम् ।
भाणवाणीसखी राज्ञ्या दिनेश्वर्याश्च किङ्करी ॥ ४४॥
स्वार्थपरा स्तैन्यपरा धर्मधनाऽवचोरिका ।
साऽहं मृता याम्यदूतैर्नीता याम्यपुरं ततः ॥ ४५॥
भुक्त्वा पापफलं तस्माज्जन्मार्थं त्विह चाऽऽगता ।
गृहगोधा कर्मवशाज्जाताऽवशेषभोगिनी ॥ ४६॥
पूजावारिस्पृष्टदेहा मृताऽत्र कृपया मुनेः ।
प्रसादाशनतो नष्टा वासना मम सर्वथा ॥ ४७॥
बहुपुण्याऽस्मि सञ्जाता कथायाः श्रवणादिह ।
दिव्या देव्यस्मि सञ्जाता कृपया लोमशस्य च ॥ ४८॥
मोक्षमिच्छामि गन्तुं वै नेच्छामि स्वर्गमित्यपि ।
मह्यं मन्त्रं हरेश्चापि नामधुन्यं प्रपत्तिदम् ॥ ४९॥
लोमशोऽयं ददात्वत्र येन यामि पराऽक्षरम् ।
नमामि पादयोर्वश्च किङ्करी देविकाऽस्मि च ॥ ५०॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य चतुर्थखण्डे
७०-अध्यायान्तर्गतं देविकाकृतं बालकृष्णस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय ७०/३५-५०॥
lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 70/35-50..
Proofread by PSA Easwaran