श्रीधन्वन्तरिमङ्गलाचरणम्
॥ श्रीसर्वेश्वरो जयति ॥
॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥
नौमि सर्वेश्वरं देवं सनकाद्यैः प्रपूजितम् ।
श्रीराधामाधवं हृद्यं प्रेमाभक्तिप्रदायकम् ॥ १॥
श्रीनिम्बार्कं सदा वन्दे कृपासिन्धुं प्रभाकरम् ।
श्रीहरिव्यासदेवञ्च जगद्गुरुं नमाम्यहम् ॥ २॥
परशुराममाचार्यं जगद्गुरुं हृदा भजे ।
प्रपन्नरक्षणे दक्षं सर्वशास्त्रविशारदम् ॥ ३॥
मदीयगरुदेवञ्च विख्यातं जगतीतले ।
जगद्गुरुवरं श्रेष्ठं प्रणमामि पुनः पुनः ॥ ४॥
पूर्वाचार्यान्हृदा नत्वा श्रुत्यर्थरचनापरान् ।
तन्यते मञ्जुलं स्तोत्रं धन्वन्तरिकृपाष्टकम् ॥ ५॥
इति श्रीधन्वन्तरि मङ्गलाचरणं सम्पूर्णम् ।
Proofread by Mohan Chettoor