धरणिकृतं विष्णुस्तोत्रम्
धरण्युवाच ।
नमः कमलपत्राक्ष नमस्ते पीतवाससे ।
नमः सुरारिविध्वंसकारिणे परमात्मने ॥ २०॥
शेषपर्यङ्कशयने धृतवक्षस्थलश्रिये ।
नमस्ते सर्वदेवेश नमस्ते मोक्षकारिणे ॥ २१॥
नमः शार्ङ्गासिचक्राय जन्ममृत्युविवर्जित ।
नमो नाभ्युत्थितमहाकमलासनजन्मने ॥ २२॥
नमो विद्रुमरक्तोष्ठपाणिपल्लवशोभिने ।
शरणं त्वां प्रपन्नास्मि त्राहि नारीमनागसम्२३॥
पूर्णनीलाञ्जनाकारं वाराहं ते जनार्दन ।
दृष्ट्वा भीताऽस्मि भूयोऽपि जगत्त्वद्देहगोचरे
इदानीं कुरु मे नाथ दयां त्राहि महाप्रभो ॥ २४॥
केशवः पातु मे पादौ जङ्घे नारायणो मम ।
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥ २५॥
नाभिं विष्णुस्तु मे पातु उदरं मधुसूदनः ।
उरस्त्रिविक्रमः पातु हृदयं पातु वामनः ॥ २६॥
श्रीधरः पातु मे कण्ठं हृषीकशो मुखं मम ।
पद्मनाभस्तु नयने शिरो दामोदरो मम ॥ २७॥
एवं न्यस्य हरेर्न्यासं नामानि जगती तदा ।
नमस्ते भगवन्विष्णो - इत्युक्त्वा विरराम ह ॥ २८॥
इति वाराहपुराणे प्रथमाध्यायान्तर्गतं धरणिकृतं विष्णुस्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय १/२०-२८॥
varAhapurANa . adhyAya 1/20-28..
Proofread by PSA Easwaran