धर्मदेवकृता श्रीहरिस्तुतिः १
(शिखरिणी)
महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो
विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम् ।
विजानीयामद्धा नलिननयनात्मीयवचसो
विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १॥
यदाहुर्ब्रह्मके पुरुषमितरे कर्म च परे ।
परे बुद्धं चान्ये शिवमपि च धातारमपरे ।
तथा शक्तिं केचिद् गणपतिमुतार्कं च सुधियो
मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २॥
शिवोऽहं रुद्राणामहममरराजो दिविषदां
मुनीनां व्यासोऽहं हरिवर समुद्रोऽस्मि सरसाम् ।
कुबेरो यक्षाणामिति तव वचो मन्दमतये
न जाने तज्जातं जगति ननु यन्नास्यभयद ॥ ३॥
क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः
क्वचित् खर्वो रामो दशरथसुतो नन्दतनयः ।
क्वचिद् बुद्धः कल्किर्विहरसि कुमारापहृतये
स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४॥
तवादेशं कृत्वा शिरसि भगवँश्चाक्षरमुखा
वृषा नस्सु प्रोता इव कृषिकृतश्चैव सभयं ।
प्रवर्तन्ते सृष्टेर्जनिभरणनाशार्थमनिशं
त्वमेवैकः स्वामी सकलजगतां कोऽपि न परः ॥ ५॥
कणान् कश्चिद् वृष्टेर्गणननिपुणस्तूर्णमवने-
स्तथाऽशेषान् पांसूनमित कलयेच्चापि तु जनः ।
नभः पिण्डीकुर्यादचिरमपि चेच्चर्मवदिदं
तथापीशासौ ते कलयितुमलं नाखिलगुणान् ॥ ६॥
सुधापानं ज्ञानं न च विपुलदानं न निगमो
नयागो नो योगो न च निखिल भोगोपरमणम् ।
जपो नो नो तीर्थं व्रतमपि च नोग्रं त्विह तपो
विना भक्तिं तेऽलं भवभयविनाशाय भगवन् ॥ ७॥
नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो
नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः ।
नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो
नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः ॥ ८॥
इति ज्ञात्वा स्वामिन्नभयद शरण्येश शरणं
समायातो दीनस्तव पदसरोजं द्रुतमहं
अचिन्त्यैश्वर्याब्धे निजबिरुदमालोक्य करुणां
विधाय स्वीयं तद् वरद वरदानं कुरु ऋतम् ॥ ९॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे
षष्ठे तरङ्गे धर्मदेवकृता श्रीहरिस्तुतिः सम्पूर्णा ।