धर्मकृतं राधाकृष्णस्तोत्रम्

धर्मकृतं राधाकृष्णस्तोत्रम्

धर्म उवाच । मातर्जानीहि मां धर्मं धर्मज्ञानां गुरोर्गुरुम् । परस्त्रीमातृबुद्धिं च कुर्वन्तं सन्ततं सति ॥ १९॥ अहं तवान्तर्विज्ञातुमागतस्तव सन्निधिम् । युष्माकं च मनो जाने तथापि दैवबोधितः ॥ २०॥ कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् । शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २१॥ धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः । विधातारं संविधातुं तस्मै कृष्णाय ते नमः ॥ २२॥ संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः । स्रष्टारं लीलया स्रष्टुं तस्मै कृष्णाय ते नमः ॥ २३॥ शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः । स्रष्टुं नष्टुं तदेवं च तस्मै कृष्णाय ते नमः ॥ २४॥ शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः । सम्पदं विपदं यो हि तस्मै कृष्णाय ते नमः ॥ २५॥ प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः । ब्रह्मविष्णुमहेशाद्यास्तस्मै कृष्णाय ते नमः ॥ २६॥ येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा । दाहीकृतो हुताशश्च तस्मै कृष्णाय ते नमः ॥ २७॥ अतितेजः समुत्थाय तेजोरूपाय मूर्त्तये । गुणश्रेष्ठ निर्गुणाय तस्मै कृष्णाय ते नमः ॥ २८॥ सर्वस्मै सर्वबीजाय सर्वेषामन्तरात्मने । सर्वबन्धुस्वरूपाय तस्मै कृष्णाय ते नमः ॥ २९॥ इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे द्वात्रिंशाध्यायान्तर्गतं धर्मकृतं राधाकृष्णस्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय ४२/२२-२९॥ brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 42/22-29.. Proofread by PSA Easwaran
% Text title            : Dharmakritam Radhakrishna Stotram
% File name             : dharmakRRitaMrAdhAkRRiShNastotram.itx
% itxtitle              : rAdhAkRiShNastotram (dharmakRitaM brahmavaivartapurANAntargatam)
% engtitle              : dharmakRRitaM rAdhAkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, brahmavaivartapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma, pUrvabhAga | adhyAya 42/22-29||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 22, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org