धर्मव्याधकृतं पुरुषोत्तमपरं स्तोत्रम्
(धर्मव्याध उवाच) - (ठिस् इस् नोत् गिवेन् इन् थे बूक्)
नमामि विष्णुं त्रिदशारिनाशनं विशालवक्षस्थलसंश्रितश्रियम् ।
सुशासनं नीतिमतां परां गतिं त्रिविक्रमं मन्दरधारिणं सदा ॥ ४२॥
दामोदरं रञ्जितभूतलं धिया यशोंशुशुभ्रं भ्रमराङ्गसप्रभम् ।
धराधरं नरकरिपुं पुरुष्टुतं नमामि विष्णुं शरणं जनार्दनम् ॥ ४३॥
(नरं नृसिंहं हरिमीश्वरं प्रभुं त्रिधामनामानमनन्तवर्चसम् ।
सुसंस्कृतास्यं शरणं नरोत्तमं व्रजामि देवं सततं तमच्युतम् ॥) ८.४३ (१)
(This verse is not in Chowkhamba version. Included from some other version)
त्रिधा स्थितं तिग्मरथाङ्गपाणिनं नयस्थितं तृप्तमनुत्तमैर्गुणैः ।
निःश्रेयसाख्यं क्षपितेतरं गुरुं नमामि विष्णुं पुरुषोत्तमं त्वहम् ॥ ४४॥
(हतौ पुराणौ मधुकैटभावुभौ बिभर्त्ति च क्ष्मां शिरसा सदा हि सः ।
यथा स्तुतो मे प्रसभं सनातनो दधातु विष्णुः सुखमूर्जितं मम ॥) ८.४४ (१)
(Same as in 43)
महावराहो हविषाम्बुभोजनो जनार्दनो मे हितकृच्चतुर्मुखः ।
क्षितीधरो मामुदधिक्षयो महान् स पातु विष्णुः शरणार्थिनं तु माम् ॥ ४५॥
मायाततं येन जगत्त्रयं कृतं यथाग्निनैकेन ततं चराचरम् ।
चराचरस्य स्वयमेव सर्वतः स मेऽस्तु विष्णुः शरणं जगत्पतिः ॥ ४६॥
भवे भवे यश्च ससर्ज्ज कं ततो जगत्प्रसूतं सचराचरं त्विदम् ।
ततश्च रुद्रात्मवति प्रलीयते ततो हरिर्विष्णुहरस्तथोच्यते ॥ ४७॥
खात्मेन्दुपृथ्वीपवनाग्निभास्करा जलं च यस्य प्रभवन्ति मूर्त्तयः ।
स सर्वदा मे भगवान् सनातनो ददातु शं विष्णुरचिन्त्यरूपधृक् ॥ ४८॥
इतीरिते तस्य सनातनः स्वयं पुरो बभूवाद्भुतरूपदर्शनः ।
इति वराहपुराणे अष्टाध्यायान्तर्गतं धर्मव्याधकृतं
पुरुषोत्तमपरं स्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय ८/४२-४८॥
varAhapurANa . adhyAya 8/42-48..
Proofread by PSA Easwaran