दुर्वाससा कृतं श्रीकृष्णस्तोत्रम्
स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति सर्वदा ।
किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥ १॥
त्रिलोकेश त्रिधामासि सर्गसंहारकारकः ।
देवानामपि देवेश सर्वत्र समदर्शनः ॥ २॥
विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥ ३॥
शब्दागोचर देवेश नमस्ते भक्तवत्सल ।
अज्ञानादथ वा ज्ञानाद्यन्मयोक्तं क्षमस्व तत् ॥ ४॥
त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन् क्षमासारा हि साधवः ॥ ५॥
इति हरिवंशान्तर्गतं दुर्वाससा कृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ३१.२५८९॥
harivaMsha . anubandha - parishiShTa . adhyAya a31.2589..
Proofread by PSA Easwaran