$1
द्वादशमूर्तिस्तुतिः १
$1

द्वादशमूर्तिस्तुतिः १

तत्र वैष्णवलोके तु विष्णुः साक्षात्सनातनः । चतुर्धा दशधा चैव तथा द्वादशधा पुनः ॥ १॥ विभिन्नमूर्तिः सततं वर्तते माधवः सदा । जाम्बूनदप्रभश्चक्री पुर्वस्यां दिशि केशवः ॥ २॥ पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः । इन्दीवरदलश्यामो मधुमान्माधवेऽवति ॥ ३॥ गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् । उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः ॥ ४॥ आग्नेय्यामरविन्दाभो मुसली मधुसूदनः । त्रिविक्रमः खड्गपाणिः नैरृत्ये ज्वलनप्रभः ॥ ५॥ वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् । ईशान्यां पुण्डरीकाभः श्रीधरः पट्टिशायुधः ॥ ६॥ विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी । पद्मनाभः शार्ङ्गपाणिः सहस्रार्कसमप्रभः ॥ ७॥ माणिक्यमण्टपस्थानमानुलोम्येन वेष्टते । सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतो मुखः ॥ ८॥ इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः । दामोदरस्तु सर्वात्मा परमानन्दनिर्भरः ॥ ९॥ माणिक्यमण्टपस्थानं विलोमेन विवेष्टते । इत्थं द्वादशभिर्दे हैः भगवानम्बुजेक्षणः । माणिक्यमण्टपगतो विष्णुलोके विराजते ॥ १०॥ एतेषां विभवमूर्तीनां केशवादीनां, समष्टिरूपस्य वासुदेवस्य च शक्तयः पत्न्यः कीर्तिः कान्तिः तुष्टिः पुष्टिः धृतिः क्षान्तिः, क्रिया, दया, मेधा हर्षा, श्रद्धा लज्जा लक्ष्मीरिति क्रमदीपिकायाम् । इति ब्रह्माण्डपुराणान्तर्गतं द्वादशमूर्तिस्तुतिः १ सम्पाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : dvAdashamUrtistutiH 1
% File name             : dvAdashamUrtistutiH1.itx
% itxtitle              : dvAdashamUrtistutiH 1 (brahmANDapurANAntargatA)
% engtitle              : dvAdashamUrtistutiH 1
% Category              : vishhnu, krishna, dvAdasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Source                : brahmANDapurANa
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org