एकादशाक्षरश्रीकृष्णमन्त्रः
॥ विनियोगः ॥
ॐ अस्य श्रीएकादशाक्षरश्रीकृष्णमन्त्रस्य भगवान् नारद ऋषिः ।
गायत्री छन्दः । श्रीकृष्णपरमात्मा देवता । ॐ शक्तिः । क्लीं बीजम् ।
ग्लौं कीलकम् । भगवान् श्रीकृष्णपरमात्मप्रीत्यर्थे जपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
श्रीनारदऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीकृष्णपरमात्मदेवतायै नमः हृदि ।
ॐ शक्तये नमः नाभौ ।
क्लीं बीजाय नमः गुह्ये ।
ग्लौं कीलकाय नमः पादयोः ।
भगवत् श्रीकृष्णपरमात्मप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
॥ करन्यासः ॥
ॐ क्लीं अङ्गुष्ठाभ्यां नमः ।
ग्लौं क्लीं तर्जनीभ्यां स्वाहा ।
कृष्णाय मध्यमाभ्यां वषट् ।
क्लीं ग्लौं अनामिकाभ्यां हुं ।
क्लीं ॐ कनिष्ठिकाभ्यां वौषट् ।
ॐ क्लीं ग्लौं क्लीं कृष्णाय क्लीं ग्लौं क्लीं ॐ करतलकरपृष्ठाभ्यां फट् ॥
॥ अङ्गन्यासः ॥
ॐ क्लीं हृदयाय नमः ।
ग्लौं क्लीं शिरसे स्वाहा ।
कृष्णाय शिखायै वषट् ।
क्लीं ग्लौं कवचाय हुं ।
क्लीं ॐ नेत्रत्रयाय वौषट् ।
ॐ क्लीं ग्लौं क्लीं कृष्णाय क्लीं ग्लौं क्लीं ॐ अस्त्राय फट् ॥
॥ ध्यानम् ॥
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभम् ।
नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् ॥
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिम् ।
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
॥ मन्त्रः ॥
ॐ क्लीं ग्लौं क्लीं कृष्णाय क्लीं ग्लौं क्लीं ॐ ॥
इति एकादशाक्षरश्रीकृष्णमन्त्रः सम्पूर्णः ।
Encoded and proofread by Durga Sharma