एकाक्षरी नृसिंहमन्त्र
श्रीगणेशाय नमः । ॐ अस्य श्रीनृसिंहएकाक्षरीमन्त्रस्य अत्रि ऋषिः ।
गायत्रीच्छन्दः । श्रीनृकेसरी देवता ।
श्रीलक्ष्मीनृसिंहकृपाप्रसादसिध्यर्थे जपे विनियोगः ।
अथ करन्यासः ।
ॐ क्ष्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्ष्रीं तर्जनीभ्यां नमः ।
ॐ क्ष्रूं मध्यमाभ्यां नमः ।
ॐ क्ष्रैं अनामिकाभ्यां नमः ।
ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्ष्रः करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासः ।
ॐ क्ष्रां हृदयाय नमः ।
ॐ क्ष्रीं शिरसे स्वाहा ।
ॐ क्ष्रूं शिखाय वषट् ।
ॐ क्ष्रैं कवचाय हुम् ।
ॐ क्ष्रौं नेत्रत्रयाय वौषट् ।
ॐ क्ष्रः अस्त्राय फट् ।
ॐ भूर्भुवस्वरोमिति दिग्बन्धः ।
अथ ध्यानम् ।
ॐ तमसोमहुताशनलोचनम् । घनसमानगलं शशिसमप्रभम् ।
अभयचक्रपिनाकवरान् करैः । दधतमिन्दुधरं नृहरिं भजे ॥ १॥
अथ मन्त्रः ।
ॐ क्ष्रौं ॐ ।
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ २॥
पुनर्ध्यानम् । हृदयादिन्यासः ॥
इति श्री एकाक्षरीमन्त्रं सम्पूर्णम् ।
Proofread by M K Barman