गीतावली

गीतावली

प्रथमं नन्दोत्सवादि श्रीराधाकृष्णौ जयतः

भैरवरागेण गीयते । पुत्रमुदारमसूत यशोदा । समजनि वल्लवततिरतिमोदा ॥ ध्रुवम् ॥ कोऽप्यपनयति विविधमुपहारम् । नृत्यति कोऽपि जनो बहुबारम् ॥ कोऽपि मधुरमुपगायति गीतम् । विकिरति कोऽपि सदधि नवनीतम् ॥ कोऽपि तनोति मनोरथपूर्तिम् । पश्यति कोऽपि सनातनमूर्तिम् ॥ १॥

आसावरी । विप्रवृन्दमभूदलङ्कृतिगोधनैरपि पूर्णम् । गायनान् अपि मद्विधान् व्रजनाथ तोषय तूर्णम् ॥ सूनुरद्भुतसुन्दरोऽजनि नन्दराज तवायम् । देहि गोष्ठजनाय वाञ्छितमुत्सवोचितदायम् ॥ ध्रुवम् ॥ तावकात्मजवीक्षणक्षणनन्दि मद्विधचित्तम् । यन्न कैरपि लब्धमर्थिभिरेतदिच्छति वित्तम् ॥ श्रीसनातनचित्तमानसकेलिनीलमराले । मादृशां रतिरत्र तिष्ठतु सर्वदा तव बाले ॥ २॥

वसन्तपञ्चमी वसन्तरागः अभिनवकुट्मलगुच्छसमुज्ज्वलकुञ्चितकुन्तलभार । प्रणयिजनेरितवन्दनसहकृतचूर्णितवनघनसार ॥ जय जय सुन्दर नन्दकुमार । सौरभसङ्कटवृन्दावनविहितवसन्तविहार ॥ ध्रुव ॥ अधरविराजितमन्दतरस्मितलोभितनिजपरिवार । चटुलदृगञ्चलरचितरसोच्चलराधामदनविकार ॥ भुवनविमोहनमञ्जुलनर्तनगतिवल्गितमणिहार । निजवल्लभजनसुहृत्सनातनचित्तविहरदवतार ॥ ३॥

दोलोत्सवः वसन्तरागः केलिरसमाधुरी ततिभिरतिमेदुरी कृतनिखिलबन्धुपशुपालम् । हृदि विधृतचन्दनं स्फुरदरुणवन्दनं देहरुचिनिर्जिततमालम् ॥ सुन्दरि माधवमवकलयालम् । मित्रकरलोलया रत्नमयदोलया चलितवपुरतिचपलमालम् ॥ ध्रुव ॥ व्रजहरिणलोचना रचितगोरोचना तिलकरुचिरुचिरतरभालम् । स्मितजनितलोभया वदनशशिशोभया विभ्रमितनवयुवतिजालम् ॥ नर्ममयपण्डितं पुष्पकुलमण्डितं रमणमिह वक्षसि विशालम् । प्रणतभयशातनं प्रियमधि सनातनं गोष्ठजनमानसमरालम् ॥ ४॥

आसावरी निपतति परितो वन्दनपाली । तं दोलयति मुदा सुहृदाली ॥ विलसति दोलोपरि वनमाली । तरलसरोरुहशिरसि यथाली ॥ ध्रुव ॥ जनयति गोपीजनकरताली । कापि पुरो नृत्यति पशुपाली ॥ अयमारण्यकमण्डनशाली । जयति सनातनरसपरिपाली ॥ ५॥

धनाश्रीः न कुरु कदर्थनमत्र सरण्याम् । मामवलोक्य सतीमशरण्याम् ॥ चञ्चल मुञ्च पटाञ्चलभागम् । करवाण्यधुना भास्करयागम् ॥ ध्रुव ॥ न रचय गोकुलवीर विलम्बम् । विदधे विधुमुख विनतिकदम्बम् ॥ रहसि बिभेमि विलोलदृगन्तम् । वीक्ष्य सनातन देव भवन्तम् ॥ ६॥

सौरष्ट्री राधे निगद निजं गदमूलम् । उदयति तनुमनु किमिति तापकुलमनुकृतविकटकुकूलम् ॥ ध्रुव ॥ प्रचुरपुरन्दरगोपविनिन्दककान्तिपटलमनुकूलम् । क्षिपसि विदूरे मृदुलं मुहुरपि सम्भृतमुरसि दुकूलम् ॥ अभिनन्दसि न हि चन्द्ररजोभरवासितमपि ताम्बूलम् । इदमपि विकिरसि वरचम्पककृतमनुपमदाम सचूलम् ॥ भजदनवस्थितिमखिलपदे सखि सपदि विडम्बिततूलम् । कलितसनातनकौतुकमपि तव हृदयं स्फुरति सशूलम् ॥ ७॥

सौरष्ट्री कुटिलं मामवलोक्य नवाम्बुजमुपरि चुचुम्ब स रङ्गी । तेन हठादहमभवं वेपथुमण्डलसञ्चलदङ्गी ॥ भामिनि पृच्छ न वारं वारम् । हन्त विमुह्यति वीक्ष्य मनो मम वल्लवराजकुमारम् ॥ ध्रुव ॥ दाडिमलतिकामनु निस्तलफलनमितां स दधे हस्तम् । तदनुभवान् मम धर्मोज्ज्वलमपि धैर्यधनं गतमस्तम् ॥ अदशदशोकलतापल्लवमयमतनुसनातननर्मा । तदहमवेक्ष्य बभूव चिरं बत विस्मृतकायिककर्मा ॥ ८॥

धनाश्रीः अनधिगताकस्मिकगदकारणमर्पितमन्त्रौषधिनिकुरम्बम् । अविरतरुदितविलोहितलोचनमनुशोचति तामखिलकुटुम्बम् ॥ देव हरे भव कारुण्यशाली । सा तव निशितकटाक्षशराहतहृदया जीवति कृशतनूराली ॥ ध्रुव ॥ हृदि वलदविरलसञ्ज्वरपटलीस्फुटदुज्ज्वलमौक्तिकसमुदाया । शीतलभूतलनिश्चलतनुरियमवसीदति संप्रति निरुपाया ॥ गोष्ठजनाभयसत्रमहाव्रतदीक्षित भवतो माधव बाला । कथमर्हति तां हन्त सनातन विषमदशां गुणवृन्दविशाला ॥ ९॥

१०

आसावरी हन्त न किमु मन्थरयसि सन्ततमभिजल्पम् । दन्तरोचिरन्तरयति सन्तमसमनल्पम् ॥ राधे पथि मुञ्च भुरि सम्भ्रममभिसारे । चारय चरणाम्बुरुहे धीरं सुकुमारे ॥ ध्रुव ॥ सन्तनु घनवर्णमतुलकुन्तलनिचयान्तम् । ध्वान्तं तव जीवतु नखकान्तिभिरभिशान्तम् ॥ ससनातनमानसाद्य यान्ती गतशङ्कम् । अङ्गीकुरु मञ्जुकुञ्जवसतेरलमङ्कम् ॥ १०॥

११

गौडी सिचयमुदञ्चय हृदयादल्पम् । विलिखाम्यद्भुतमकराकल्पम् ॥ इह न हि सङ्कुच पङ्कजनयने । वेशं तव करवै रतिशयने ॥ ध्रुव ॥ राधे दोलय न किल कपोलम् । चित्रं रचयाम्यहमविलोलम् ॥ तव वपुरद्य सनातनशोभम् । जनयति हृदि मम कञ्चन लोभम् ॥ ११॥

१२

आसावरी तव चञ्चलमतिरयमघहन्ता । अहमुत्तमधृतिदिग्धदिगन्ता ॥ दूति विदूरय कोमलकथनम् । पुनरभिधास्ये न हि मधुमथनम् ॥ ध्रुव ॥ शठचरितोऽयं तव वनमाली । मृदुहृदयाहं निजकुलपाली ॥ तव हरिरेष निरङ्कुशनर्मा । अहमनुबद्धसनातनधर्मा ॥ १२॥

१३

भैरवः मण्डितहल्लीसकमण्डलां नटयन् राधां चलकुण्डलाम् ॥ निखिलकलासम्पदि परिचयी । प्रियसखि पश्य नटति मुरजयी ॥ ध्रुव ॥ मुहुरान्दोलित रत्नवलयम् । सलयं चलयन् करकिशलयम् ॥ गतिभङ्गिभिरवशीकृतशशी । स्थगितसनातनशङ्करवशी ॥ १३॥

१४

भैरवः दामोदररतिवर्धनवेशे हरिनिष्कुटवृन्दाविपिनेशे । राधे जय जय माधवदयिते गोकुलतरुणीमण्डलमहिते ॥ ध्रुव ॥ वृषभानुदधिनवशशिलेखे ललितासखि गुणरमितविशाखे । करुणां कुरु मयि करुणाभरिते । सनकसनातनवर्णितचरिते ॥ १४॥

१५

धनाश्रीः । राजपुराद् गोकुलमुपयातम् । प्रमदोन्मादितजननीतातम् ॥ स्वप्ने सखि पुनरद्य मुकुन्दम् । आलोकयमवतंसितकुन्दम् ॥ ध्रुव ॥ परममहोत्सवघुर्णितघोषम् । नयनेङ्गितकृतमत्परितोषम् ॥ नवगुञ्जावलिकृतपरभागम् । प्रबलसनातनसुहृदनुरागम् ॥ १५॥

१६

सौराष्ट्री पुलकमुपैति भयान् मम गात्रम् । हससि तथापि मदादतिमात्रम् ॥ वारय तूर्णमिमं सखि कृष्णम् । अनुचितकर्मणि निर्मिततृष्णम् ॥ ध्रुव ॥ जाने भवतीमेव विपक्षाम् । मामुपनीता यद् वनकक्षाम् ॥ अद्य सनातनमतिसुखहेतुम् । न परिहरिष्ये विधिकृतसेतुम् ॥ १६॥ अथ रासः

१७

धनाश्रीः कोमलशशिकररम्यवनान्तरनिर्मितगीतविलास । तूर्णसमागतवल्लवयौवतवीक्षणकृतपरिहास ॥ जय जय भानुसुतातटरङ्गमहानट सुन्दर नन्दकुमार । शरदङ्गीकृतदिव्यरसावृत मङ्गलरासविहार ॥ ध्रुव ॥ गोपीचुम्बित रागकरम्बित मानविलोकनलीन । गुणवर्गोन्नतराधासङ्गतसौहृदसम्पदधीन ॥ तद्वचनामृतपानमदाहृत वलयीकृतपरिवार । सुरतरुणीगणमतिविक्षोभण खेलनवल्गितहार ॥ अम्बुविगाहननन्दितनिजजन मण्डितयमुनातीर । सुखसंविद्घन पूर्णसनातन निर्मलनीलशरीर ॥ १७॥

१८

धनाश्रीः शुद्धसतीव्रतवित्ता अहमतिनिर्मलचित्ता । प्रथयसि सुजनविमुक्तं नर्मेदं किमयुक्तम् ॥ माधव परिहर मे पटमेतम् । यामि जवेन निकेतम् ॥ ध्रुव ॥ यदि जानाम्यधितीरं त्वामतिगूढशरीरम् । दूरे सूरसुतायां सायं कथमुपयायाम् ॥ विदधे भवदवनामं चरितं परिहर वामम् । वर्त्म सनातनमुचितं पालय धार्मिकरुचितम् ॥ १८॥

१९

कर्णाटः किं वितनोषि मुधाङ्गविभूषणकपटेनात्र विघातम् । सोढुमहं समयस्य न संप्रति शक्ता लवमपि पातम् ॥ गोकुलमङ्गलवंशी ध्वनिरुद्गर्जति वनगतये स्मरभूपतिशासनशंसी ॥ ध्रुव ॥ माधवचरणाङ्गुष्ठनखद्युतिरयमुदयति हिमधामा । मा गुरुजनभयमुद्गिर मुहुरियमभवं धावितकामा ॥ तं सेवितुमिह पश्य सनातनपरमारण्यजवेशम् । गोपवधूततिरियमुपसर्पति भानुसुतातटदेशम् ॥ १९॥

२०

कर्णाटः स्फुरदिन्दीवरनिन्दिकलेवर राधाकुचकुङ्कुमभर पिञ्जर । सुन्दरचन्द्रकचूड मनोहर चन्द्रावलिमानसशुकपञ्जर ॥ जय जय जय गुञ्जावलिमण्डित । प्रणयविश‍ृङ्खलगोपीमण्डलवर बिम्बाधरखण्डनपण्डित ॥ ध्रुव ॥ मृगवनिताननतृणविस्रंसन कर्मधुरन्धरमुरलीकूजित । स्वारसिकस्मितसुषमोन्मादित सिद्धसतीनयनाञ्चलपूजित ॥ ताम्बूलोल्लसदाननसारस जाम्बूनदरुचिविस्फुरदम्बर । हरकमलासनसनकसनातन धृतिविध्वंसनलीलाडम्बर ॥ २०॥

२१

केदारः सौरभसेवितपुष्पविनिर्मित निर्मलवनमालापरिमण्डित । मद्नतरस्मितकान्तिकरम्बित वदनाम्बुजनवविभ्रमपण्डित ॥ जय जय मरकतकन्दलसुन्दर । वरचामीकरपीताम्बरधर वृन्दावनजनवृन्दपुरन्दर ॥ ध्रुव ॥ नवगुञ्जाफलराजिभिरुज्ज्वल केकिशिखण्डकशेखरमञ्जुल । गुणवर्गातुलगोपवधूकुल चित्तशिलीमुखपुष्पितवञ्जुल ॥ कलमुरलीक्वणपूरविचक्षण पशुपालाधिपहृदयानन्दन । गिरिशसनातनसनकसनन्दन नारदकमलासनकृतवन्दन ॥ २१॥

२२

गौडी यामुनजलकणिकाभिरुपेते । सङ्गतमुज्ज्वलकुञ्जनिकेते ॥ त्वयि विनिहितवरसौहृदभारम् । विहितापरतरुणीपरिहारम् ॥ भज सखि वल्लवराजकुमारम् । कामिततावकसङ्गविहारम् ॥ ध्रुव ॥ नवगुञ्जाफलमञ्जुलहारम् । माल्यविहारिमधुपपरिवारम् ॥ निर्मलनर्मविभावनशीलम् । वल्लवमत्र सनातनलीलम् ॥

२३

मल्लारः तरुणीलोचनतापविमोचन हाससुधाङ्कुरधारी । मन्दमरुच्चलपिञ्छकृतोज्ज्वल मौलिरुदारविहारी ॥ सुन्दरि पश्य मिलति वनमाली । दिवसे परिणतिमुपगच्छति सति नवनवविभ्रमशाली ॥ ध्रुव ॥ धेनुखुरोद्धुतरेणुपरिप्लुत फुल्लसरोरुहदामा । अचिरविकस्वरलसदिन्दीवर मण्डलसुन्दरधामा ॥ कलमुरलीरुतिकृततावकरति- रत्र दृगन्ततरङ्गी । चारुसनातनतनुरनुरञ्जन कारिसुहृद्गणसङ्गी ॥ २३॥

२४

धनाश्रीः यद्यपि समाधिषु विधिरपि पश्यति न तव नखाग्रमरीचिम् । इदमिच्छामि निशम्य तवाच्युत तदपि कृपाद्भुतवीचिम् ॥ देव भवन्तं वन्दे । मन्मानसमधुकरमर्पय निज पदपङ्कजमकरन्दे ॥ ध्रुव ॥ भक्तिरुदञ्चति यद्यपि माधव न त्वयि मम तिलमात्री । परमेश्वरता तदपि तवाधिक दुर्घटघटनविधात्री ॥ अयमविलोलतयाद्य सनातन कलिताद्भुतरसभारम् । निवसतु नित्यमिहामृतनिन्दिनि विन्दन्मधुरिमसारम् ॥ २४॥ अथ नायिकाभेदाः अथाभिसारिका वाससज्जाप्युत्कण्ठिता तथा । विप्रलब्धा खण्डिता च कलहान्तरिता परा ॥ प्रोषितप्रेयसी प्रोक्ता तथा स्वाधीनभर्तृका । इत्यष्टौ नायिकाभेदा रसतन्त्रे प्रकीर्तिताः ॥ तत्राभिसारिका या पर्युत्सुकचित्तातिमदेन मदनेन च । आत्मनाभिसरेत् कान्तं सा भवेदभिसारिका ॥

२५

धनाश्रीः त्वं कुचवल्गितमौक्तिकमाला । स्मितसान्द्रीकृतशशिकरजाला ॥ हरिमभिसर सुन्दरि सितवेशा । राकारजनिरजनि गुरुरेषा ॥ ध्रुव ॥ परिहितमाहिषदधिरुचिसिचया । वपुरर्पितघनचन्दननिचया ॥ कर्णकरम्बितकैरवहासा । कलितसनातनसङ्गविलासा ॥ २५॥ अथ वासकसज्जा भवेद् वासकसज्जासौ सज्जिताङ्गरतालया । निश्चित्यागमनं भर्तुर्द्वारेक्षणपरायणा ॥

२६

कल्याणः कुसुमावलिभिरुपस्कुरु तल्पम् । माल्यं चामलमणिसरकल्पम् ॥ प्रियसखि केलिपरिच्छदपुञ्जम् । उपकल्पय सत्वरमधिकुञ्जम् ॥ ध्रुव ॥ मणिसम्पुटमुपनय ताम्बूलम् । शयनाञ्चलमपि पीतदुकूलम् ॥ विद्धि समागतमप्रतिबन्धम् । माधवमाशु सनातनसन्धम् ॥ २५॥ अथोत्कण्ठिता सा स्यादुत्कण्ठिता यस्या वासं नैति द्रुतं प्रियः । तस्यानगमने हेतुं चिन्तयन्त्या शुचा भृशम् ॥

२७

आसावरी किमु चन्द्रावलिरनयगभीरा । न्यरुणदमुं रतिवीरमधीरा ॥ अतिचिरमजनि रजनिरतिकाली । सङ्गमविन्दत न हि वनमाली ॥ ध्रुव ॥ किमिह जने धृतपङ्कविपाके । विस्मृतिरस्य बभूव वराके ॥ किमुत सनातनतनुरलघिष्ठम् । रणमारभत सुरारिभिरिष्टम् ॥ २७॥ अथ विप्रलब्धा यस्या दूतीं स्वयं प्रेष्य समये नागतः प्रियः । शोचन्ती तं विना दुःस्था विप्रलब्धा तु सा स्मृता ॥

२८

गौडी कोमलकुसुमावलीकृतचयनम् । अपसारय रतिलीलाशयनम् ॥ श्रीहरिणाद्य न लेभे शमये । हन्त जनं सखि शरणं कमये ॥ ध्रुव ॥ निधृतमनोहरगन्धविलासम् । क्षिप यामुनतटभुवि पटवासम् ॥ लब्धमवेहि निशान्तिमयामम् । मुञ्च सनातनसङ्गतिकामम् ॥ २८॥ अथ खण्डिता अन्यया सह कान्तस्य दृष्टे सम्भोगलक्षणे । ईर्ष्याकषायितात्मासौ खण्डिता खलु कथ्यते ॥

२९

रामकेलिः हृदयान्तरमधिशायितम् । रमय जनं निजदयितम् ॥ किं फलमपराधिकया । संप्रति तव राधिकया ॥ माधव परिहर पटिमतरङ्गम् । वेत्ति न का तव रङ्गम् ॥ ध्रुव ॥ आघूर्णति तव नयनम् । याहि घटीं भज शयनम् ॥ अनुलेपं रचयालम् । नश्यतु नखपदजालम् ॥ त्वामिह विलसति बाला । मुखरसखीनां माला ॥ देव सनातन वन्दे । न कुरु विलम्बमालिन्दे ॥ २९॥

३०

यां सेवितवान् असि जागरी । त्वामजयत् सा निशि नागरी ॥ कपटमिदं तव विन्दति हरे । नावसरं पुनरालिनिकरे ॥ ध्रुव ॥ मा कुरु शपथं गोकुलपते । वेत्ति चिरं का चरितं न ते ॥ मुक्तसनातनसौहृदभरे । न पुनरहं त्वयि रसमाहरे ॥ ३०॥ अथ कलहान्तरिता निरस्तो मन्युना कान्तो नमन्नपि यया पुरः । सानुतापयुता दीना कलहान्तरिता भवेत् ॥

३१

ललितः नाकर्णयमतिसुहृदुपदेशम् । माधवचाटुपटलमपि लेशम् ॥ सीदति सखि मम हृदयमधीरम् । यदभजमिह न हि गोकुलवीरम् ॥ ध्रुव ॥ नालोकयमर्पितमुरुहारम् । प्रणमन्तं च दयितमनुवारम् ॥ हन्त सनातनगुणमभियान्तम् । किमधारयमहमुरसि न कान्तम् ॥ ३१॥ अथ विरहिणी प्रोषितप्रेयसी कुतश्चित् कारणाद् यस्या विदूरस्थो भवेत् पतिः । तदनागमदुःखार्ता सा स्यात् प्रोषितभर्तृका ॥

३२

गौडी कुर्वति किल कोकिलकुले उज्ज्वलकलनादम् । जैमिनिरिति जैमिन्रिति जल्पति सविषादम् ॥ माधव घोरे वियोगतमसि निपपात राधा । विधुरमलिनमूर्तिरधिकमधिरूढबाधा ॥ ध्रुव ॥ नीलनलिनमाल्यमहह वीक्ष्य पुलकवीता । गरुड गरुड गरुडेत्यभिरौति परमभीता ॥ लम्भितमृगनाभिमगुरुकर्दममनु दीना । ध्यायति शितिकण्ठमपि सनातनमनुलीना ॥ ३२॥ अथ स्वाधीनभर्तृका यस्याः प्रेमगुणाकृष्टः प्रियः पार्श्वं न मुञ्चति । विचित्रसम्भ्रमासक्ता सा स्यात् स्वाधीनभर्तृका ॥

३३

मल्लारः पत्रावलिमिह मम हृदि गौरे । मृगमदबिन्दुभिरर्पय शौरे ॥ श्यामल सुन्दर विविधविशेषम् । विरचय वपुषि ममोज्ज्वलवेशम् ॥ ध्रुव ॥ पिञ्छमुकुट मम पिञ्छनिकाशम् । वरमवतंसय कुन्तलपाशम् ॥ अत्र सनातन शिल्पलवङ्गम् । श्रुतियुगले मम लम्भय सङ्गम् ॥ ३३॥

३४

वसन्तरागः किमयं रचयति नयनतरङ्गम् । कैरविनी न हि भजति पतङ्गम् ॥ वारय माधवमुद्यदनङ्गम् । स्पृशति यथायं न सखि मदङ्गम् ॥ ध्रुव ॥ कम्पिकरान् मम पतति लवङ्गम् । त्वमपि तथापि न मुञ्चसि रङ्गम् ॥ कमपि सनातनधर्ममभङ्गम् । न परिहरिष्ये हृदि कृतसङ्गम् ॥ ३४॥

३५

भैरवरागः अपघनघटितघुसृणघनसार । पिञ्छखचितकुञ्चितकचभार ॥ जय जय वल्लवराजकुमार । राधावक्षसि हरिमणिहार ॥ ध्रुव ॥ राधाधृतिहरमुरलीतार । नयनाञ्चलकृतमदनविकार ॥ रसरञ्जितराधापरिवार । कलितसनातनचित्तविहार ॥ ३५॥

३६

कर्णाटरागः, एकताली तालः सुन्दरि साध्वी त्वमिह किशोरी । तत् कथमसि वद गोष्ठपुरन्दरनन्दन हृन्मणिचौरी ॥ न हि सङ्गोपय परधनमधुना त्वं विदिता कुलपाली । ललितासखि कुरु करुणां सीदति कन्दरभुवि वनमाली ॥ अयि रमणीमणि रमणीयं मणिमर्पय पुनरावलम्बम् । बह्वतु निराकुलमतिकृपया तव हरिपरिजननिकुरम्बम् ॥ दूतीयुगमिदमवनमति स्वयमवनिलुठितकचजुटम् । तन्वि सनातनसौहृदमनुसर विस्तारय न हि कूटम् ॥ ३६॥

३७

मल्लाररागः, एकताली तालः राधे कलय हृदयमनुकूलम् । दलति दृगञ्चलशरहतहृत् तव गोकुलजीवितमूलम् ॥ ध्रुव ॥ शीलितपञ्चमगीतिरदक्षिणपाणिसरोरुहहंसी । तनुते साम्प्रतमस्य मुनिव्रतमरतिभरादिव वंशी ॥ भ्रमदिन्दिन्दिरवृन्दविकर्षणपरिमलपटलविशाला । पतिता कण्ठतटादभिशुष्यति तस्य वने वनमाला ॥ अदये दधती तनुरपि तनुतां तस्य समुज्झितलीला । शीर्यति कन्दरधाम्नि सनातनहृदयानन्दनशीला ॥ ३७॥

३८

वसन्तरागः मधुरिपुरद्य वसन्ते । खेलति गोकुलयुवतिभिरुज्ज्वलपुष्पसुगन्धदिगन्ते ॥ ध्रुव ॥ प्रेमकरम्बितराधाचुम्बितमुखविधुरुत्सवशाली । धृतचन्द्रावलिचारुकराङ्गुलिरिह नवचम्पकमाली ॥ नवशशिरेखालिखितावशाखातनुरथ ललितासङ्गी । श्यामलयाश्रितबाहुरुदञ्चितपद्माविभ्रमरङ्गी ॥ भद्रालम्बितशैव्योदीरितरक्तरजोभरधारी । पश्य सनातनमूर्तिरयं घनवृन्दावनरुचिकारी ॥ ३८॥ (३९] @१ वसन्तरागः ऋतुराजार्पिततोषरङ्गम् । राधे भज वृन्दावनंरङ्गम् ॥ ध्रुव ॥ मलयानिलगुरुशिक्षितलास्या । नटति लताततिरुज्ज्वलहास्या ॥ पिकततिरिह वादयति मृदङ्गम् । पश्यति तरुकुलमङ्कुरदङ्गम् ॥ गायति भृङ्गघटाद्भुतशीला । मम वंशीव सनातनलीला ॥ ३९॥

४०

वसन्तरागः विहरति सह राधिकया रङ्गी । मधुमधुरे वृन्दावनरोधसि हरिरिह हर्षतरङ्गी ॥ ध्रुव ॥ विकिरति यन्त्रेरितमघवैरिणि राधा कुङ्कुमपङ्कम् । दयितामयमपि सिञ्चति मृगमदरसराशिभिरविशङ्कम् ॥ क्षिपति मिथो युवमिथुनमिदं नवमरुणतरं पटवासम् । जितमिति जितमिति मुहुरपि जल्पति कल्पयदतनुविलासम् ॥ सुबलो रणयति घनकरताली जितवान् इति वनमाली । ललिता वदति सनातनवल्लभमजयत् पश्य ममाली ॥ ४०॥

४१

धनाश्रीः राधा सखि जलकेलिषु निपुणा । खेलति निजकुण्डे मधुरिपुणा ॥ ध्रुव ॥ कुचपटलुण्ठननिर्मितकलिना । आयुधपदवीयोजितनलिना ॥ दृढपरिरम्भणचुम्बनहठिना । हिमजलसेचनकर्मणि कठिना ॥ सुखभरशिथिलसनातनमहसा । दयितपराजयलक्षणसहसा ॥

४२

धनाश्रीः राधे निजकुण्डपयसि तुङ्गीकुरु रङ्गम् । किं च सिञ्च पिञ्छमुकुटमङ्गीकृतभङ्गम् ॥ ध्रुव ॥ अस्य पश्य फुल्लकुसुमरचितोज्ज्वलचूडा । भीतिभिरतिनीलनिविडकुन्तलमनु गूढा ॥ धातुरचितचित्रवीथिरम्भसि परिलीना । मालाप्यतिशिथिलवृत्तिरजनि भृङ्गहीना ॥ श्रीसनातनसुमणिरत्नमंशुभिरपि चण्डम् । भेजे प्रतिबिम्बभावदम्भी तव गण्डम् ॥ ४२॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां गीतावली समाप्ता ।
% Text title            : gItAvalI
% File name             : gItAvalI.itx
% itxtitle              : gItAvalI (rUpagosvAmivirachitA)
% engtitle              : gItAvalI
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org