गरुडकृतं १ विष्णुस्तोत्रम्
गरुड उवाच ।
जय जय त्रिभुवनजनमनोभवन विदलिताघगुण
सकलगीर्वाणवन्दितचरणकमलयुगलपरिमलबहलरिपुवन-
विभञ्जन विद्योतमान सकलसुरासुरमुकुटकोटिविलसित
निजपीठकमलनिरसित निजजनहृदयतिमिरपटलबहल
हिमकर इव त्रिविधसन्तापसन्दोहहरणचरण
जगदुदयस्थितिलयविलासविलसित त्रिविधमूर्तिकीर्तिविस्फूर्जित
जगदुदयसन्दोहदिनकर इव निजजनमानससरोजषट्पदविदित-
सकलवेदविद्योतमानमानस निजजनमुनिजनवन्दित
पदनखनीरपवित्रीकृत गीर्वाणमुनिमानसवन्दितचरणरजः-
प्रसादसारभूत जगतामधीश नमस्ते नमस्ते ॥ ३.४.१०॥
अपि च ।
अष्टशक्तिसहितो वनमाली पीतचैलकुसुमावलिशोभः ।
पङ्कजाकरविराजितपादः पातु मामवहितेन्द्रियवर्गः ॥ ११॥
भक्तहृत्कमलराजितमूर्तिर्दुष्टदैत्यदलनोत्थितकीर्तिः ।
बद्धसेतुरविताऽऽश्रितलोकः पातु मामनुदिनं भुवनेशः ॥ १२॥
स्थिरचलत्रिविधतापहिमांशुर्भासमानतरणिप्रतिभासः ।
एक एव बहुधा कृतवेषो माययावतु महामतिरीशः ॥ १३॥
भक्तचिन्तनकृते कृतरूपः शैशवेन बहुशासितभूपः ।
वेदमार्ग उरुधा हितकारी रीतिरीशितुरियं गुणशाली ॥ १४॥
यज्ञभुग्घृदयबन्धनधारी विश्वमूर्तिरबलांशुकहारी ।
पालनेऽपि महतां बहुदेहो रास एष तनुमानवतान्नः ॥ १५॥
प्रेमभक्तिपुरुषैरुपलभ्यः पूरुषः कृतसमस्तनिवासः ।
दास्यवृन्दहृषितो निजदासः प्रेक्षणैककरुणोऽवतु विश्वम् ॥ १६॥
कण्ठलम्बिततरक्षुनखाग्रक्रुष्टगोपरमणीकुचभारः ।
लीलया युवतिभिः कृतवेषः शेष एष भवतादुपशान्त्यै ॥ १७॥
दण्डपाणिरयमेव जनानां शासितात्मनियमोक्तहितानाम् ।
पावनाय महतामनुशाली विश्वदुःखशमनो भवतान्नः ॥ १८॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे बदरिकाश्रममाहात्म्ये चतुर्थाध्यायान्तर्गतं
गरुडकृतं विष्णुस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । बदरिकाखण्ड । अध्याय ४/१०-१८॥
skandapurANa . vaiShNavakhaNDa . badarikAkhaNDa . adhyAya 4/10-18..
Proofread by PSA Easwaran