गरुडकृतं हरिस्तोत्रम्
गरुडोऽतिप्रसन्नः सन् दृष्ट्वा ननाम दण्डवत् ।
पुलकांऽकितसर्वाङ्गस्तुष्टाव च कृताञ्जलिः ॥ ११॥
जय त्रिलोकजीवानां प्राणरूप प्रभो हरे ।
अघनाशकगीर्वाणवन्दितचरणाम्बुज ॥ १२॥
सुरारिध्वंससामर्थ्य सुरासुरनमस्कृत ।
स्वभक्तहृद्गतमोहध्वंसकृत् ते नमोनमः ॥ १३॥
तापत्रयप्रशान्तिकृच्चरणोभ नमोऽस्तु ते ।
जगज्जन्मस्थितिध्वंसकार्यकृत्त्रिस्वरूपक ॥ १४॥
भक्तमानससद्गम्य शास्त्रवेदादिरूपित ।
सुरासुरप्रवन्दितपादपद्म नमोऽस्तु ते ॥ १५॥
अष्टैश्वर्यसमायुक्त वनमालाविराजित ।
कञ्जनेत्र तिलपुष्पनासिकाऽलक्त पत्तल ॥ १६॥
स्थलपद्मपत्रतुल्यकरद्वय नमोऽस्तु ते ।
भक्तहृत्कृतनित्यास दिव्यगुणगणान्वित ॥ १७॥
अविताऽऽत्मजन धर्ममूर्ते हरे नमोऽस्तु ते ।
दिव्यैश्वर्यसमजुष्ट पाहि मां परमेश्वर ॥ १८॥
एकः सन्नपि सर्वत्राऽनन्तरूपधर प्रभो ।
भक्तकार्यकृते द्राक् चायासि नाथ नमोऽस्तु ते ॥ १९॥
क्वाऽहं पक्षी तमोव्याप्तः क्व त्वं सत्त्वमयः प्रभुः ।
कृपा ते दर्शने हेतुः कृपालोऽस्तु च ते नमः ॥ २०॥
सापराधस्य लोकस्य रक्षां करोषि सर्वथा ।
हितकृत् सुखकृच्चैव गुणाश्रय नमोऽस्तु ते ॥ २१॥
यज्ञभुक् विश्वसम्पुष्टिकृत् त्राहि मां जनेश्वर ।
कन्याम्बराणि नीत्वा च कदम्बवृक्षमास्थित ॥ २२॥
प्रेमभक्तिसमालभ्य दासैककरुणाऽव माम् ।
विश्वदुःखप्रशमन मे दास्यं देहि केशव ॥ २३॥
एवं स्तुतो हरिः साक्षाद्गरुडेन महात्मना ।
समाजुहाव गङ्गां च पूजार्थं स्वस्य तत्र वै ॥ २४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने २०७-अध्यायान्तर्गतं
गरुडकृतं हरिस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय २०७/११-२४॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 207/11-24..
Proofread by PSA Easwaran