श्रीगोपालराजस्तोत्रम्
वपुरतुलतमालस्फीतबाहूरुशाखो
परिधृतगिरिवर्यस्वर्णवर्णैकगुच्छः ।
कटिकृतपरहस्तारक्तशाखाग्रहृद्यः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १॥
रुचिरदृगभिधाने पङ्कजे फुल्लयन्तं
सुभगवदनगात्रं चित्रचन्द्रं दधानः ।
विलसदधरबिम्बघ्रायिनासाशुकोष्ठः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ २॥
चलकुटिलतरभ्रूकर्मुकान्तर्दृगन्त
क्रमणनिशितबाणं शीघ्रयानं दधानः ।
दवयितुमिव राधाधैर्यपारीन्द्रवर्यं
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ३॥
असुलभमिह राधावक्त्रचुम्बं विजानन्-
निव विलसितुमेता छाययापि प्रदूरात् ।
मुकुरयुगलमच्छं गण्डदम्भेन बिभ्र-
त्प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ४॥
रुचिनिकरविराजद्दाडिमीपक्वबीज
प्रकरविजयिदन्तश्रेणिसौरभ्यवातैः ।
रचितयुवतिचेतःकीरजिह्वातिलौल्यः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ५॥
वचनमधुरसानां पायनैर्गोपरामा
कुलमुरुधृतधामाप्युन्मदीकृत्य कामम् ।
अभिमतरतिरत्नान्याददानस्ततो द्राक्
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ६॥
कुवलयनिभभाले कौङ्कुमद्रावपुण्ड्रं
दधदिव घनशण्डे निश्चलाचञ्चलाग्रम् ।
रचयितुमिव साध्वीकीर्तिमुग्धालिभीतिं
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ७॥
श्रवणमदनरज्जू सज्जयल्लज्जिराधा
नयनचलचकोरौ बन्धुमुत्कः किशोरौ ।
कृतमकरवतंसस्निग्धचन्द्रांशुचारः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ८॥
युवतिकरणरत्नव्रातमाच्छिद्य नेत्र
भ्रमणपटुभटैस्तं न्यस्य हृत्सौधमध्ये ।
गरुडमणिकवाटेनोरसाघुष्य हृष्टः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ९॥
त्रिबलिललिततुण्डस्यन्दिनाभिह्रदोद्य-
त्तनुरुहततिसर्पीमत्र बिभ्राण उग्राम् ।
युवतिपतिभयाखुग्रासनायेव सद्यः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १०॥
मरकतकृतरम्भागर्वसर्वाङ्कशोरु
द्वयमुरुरसधाम प्रेयसीनां दधानः ।
स्फुरदविरलपुष्टश्रोणिभारातिरम्यः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ११॥
मदनमणिवरालीसम्पुटक्षुल्लजानु
द्वयसुललितजङ्घामञ्जुपादाब्जयुग्मः ।
विविधवसनभूषाभूषिताङ्गः सुकण्ठः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १२॥
कलितवपुरिव श्रीविट्ठलप्रेमपुञ्जः
परिजनपरिचर्यावर्यपीयूषपुष्टः ।
द्युतिभरजितमद्यन्मन्मथोद्यत्समाजः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १३॥
विविधभजनपुष्पैरिष्टनामानि गृह्ण-
न्पुलकिततनुरिह श्रीविट्ठलस्योरुसख्यैः ।
प्रणयमणिसरं स्वं हन्त तस्मै ददानः
प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १४॥
गिरिकुलपतिपट्टोल्लासिगोपालराज
स्तुतिविलसितपद्यान्युद्भटप्रेमदानि ।
नटयति रसनाग्रे श्रद्धया निर्भरं यः
स सपदि लभते तत्प्रेमरत्नं प्रसादम् ॥ १५॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीगोपालराजस्तोत्रं सम्पूर्णम् ।