श्रीगोपालस्तवः
येन मीनस्वरूपेण वेदाः संरक्षिताः पुरा ।
स एव वेदसंहर्ता गोपालः शरणं मम ॥ १॥
पृष्ठे यः कूर्मरूपेण दधार धरणीतलम् ।
स एव सृष्टिसंहर्ता गोपालः शरणं मम ॥ २॥
वराहरूपः सम्भूत्या दंष्टाग्रे यो महीं दधौ ।
सभूमिभारहरणो गोपालः शरणं मम ॥ ३॥
जग्राह यो नृसिंहस्य रूपं प्रह्लादहेतवे ।
स योद्धुमुद्यतः सम्यक् गोपालः शरणं मम ॥ ४॥
येन वामनरूपेण वञ्चितो बलिभूमिपः ।
स एव गोपनारीभिर्गोपालः शरणं मम ॥ ५॥
येनेयं जामदग्न्येन पृथ्वी निःक्षत्रिया कृता ।
स एव क्षत्रियहितो गोपालः शरणं मम ॥ ६॥
दशास्यो दाशरथिना येन रामेण मारितः ।
स पञ्चास्यप्राप्तबलो गोपालः शरणं मम ॥ ७॥
कालिन्दी कर्षिता येन रामरूपेण कौतुकात् ।
तज्जलक्रीडनासक्तो गोपालः शरणं मम ॥ ८॥
येन बौद्धस्वरूपेण लोकाः पाखण्डमार्गगाः ।
स एव पाखण्डहरो गोपालः शरणं मम ॥ ९॥
गमिष्यन्ति क्षयं येन राक्षसाः कल्किरूपिणा ।
स रक्षसां गतिर्दाता गोपालः शरणं मम ॥ १०॥
गोवर्धनो गिरिर्येन स्थापितः कञ्जवत्करे ।
उलूखलेन सहितो गोपालः शरणं मम ॥ ११॥
एकादश स्वीयधाम्नामावलिं यो लिखेत् हृदि ।
कृष्णप्रसादयुक्तश्च स याति परमां गतिम् ॥ १२॥
इति श्रीरधुनाथवर्यविरचितो गोपालस्तवः समाप्तः ।
Proofread by PSA Easwaran