गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्

गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्

गते शक्रे ततः कृष्णः पूज्यमानो व्रजौकसैः । गोवर्धनधरः श्रीमान् विवेश व्रजमेव ह ॥ १॥ तं स्म वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः । धन्याः स्मोऽनुगृहीताः स्मस्त्वद्धृतेन नगेन ह ॥ २॥ गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् । तव प्रसादाद्गोविन्द देवतुल्य महाद्युते ॥ ३॥ अमानुषाणि कर्माणि तव पश्याम गोपते । धारणेनास्य शैलस्य विद्मस्त्वां कृष्णमव्ययम् ॥ ४॥ कस्त्वं भवसि रुद्राणां मरुतां वा महाबल । वसूनां वा किमर्थं च वसुदेवः पिता तव ॥ ५॥ वने च बालक्रीडा ते जन्म चास्मासु गर्हितम् । कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥ ६॥ किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् । लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ॥ ७॥ देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ॥ ८॥ नमोऽस्तु कृष्ण कृष्णेति नमो गोपालबन्धवे । नमो बालाय गोप्त्रे च गोपवेषाय बान्धव ॥ ९॥ नमस्ते शिशुसिंहाय नमो भूधरधारिणे । देवायाथ वरिष्ठाय यक्षाय च नमो नमः ॥ १०॥ नमस्ते नन्दपुत्राय यशोदायाः सुताय च । को भवान् कश्च वा देवः किमर्थं नोऽभिरक्षसि ॥ ११॥ केनचिद्यदि कार्येण वससीह यदृच्छया । वयं तवानुगाः सर्वे भवन्तं शरणं गताः ॥ १२॥ इति हरिवंशान्तर्गतं गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् । हरिवंश । अध्याय ६३.१-९॥ harivaMsha . adhyAya 63.1-9.. Proofread by PSA Easwaran
% Text title            : Gopaih Kritam Shri Kritam Shrikrishna Stotram
% File name             : gopaiHkRRitaMshrIkRRitaMshrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (gopaiH kRitaM shrIkRitaM harivaMshAntargatam gate shakre tataH kRiShNaH pUjyamAno vrajaukasaiH)
% engtitle              : gopaiH kRRitaM shrIkRRitaM shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, harivaMsha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : harivaMsha | adhyAya 63.1-9||
% Indexextra            : (Scan
% Latest update         : September 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org