श्रीगोवल्लभमन्त्रः
॥ विनियोगः ॥
अस्य श्रीगोवल्लभमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः ।
श्रीकृष्णो देवता । सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
ब्रह्मणे ऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
श्रीकृष्णदेवतायै नमः हृदि ।
विनियोगाय नमः सर्वाङ्गे ॥
॥ पञ्चाङ्गन्यासः ॥
क्लीं गो हृदयाय नमः ।
वल्ल शिरसे स्वाहा ।
भाय शिखायै वषट् ।
स्वाहा कवचाय हुं ।
क्लीं गोवल्लभाय स्वाहा अस्त्राय फट् ॥
॥ करन्यासः ॥
ॐ क्लां अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ क्लूं मध्यमाभ्यां नमः ।
ॐ क्लैं अनामिकाभ्यां नमः ।
ॐ क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥
॥ षडङ्गन्यासः ॥
ॐ क्लां हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ क्लूं शिखायै वषट् ।
ॐ क्लैं कवचाय हुं ।
ॐ क्लौं नेत्रत्रयाय वौषट् ।
ॐ क्लः अस्त्राय फट् ॥
॥ ध्यानम् ॥
हरिं पञ्चवर्षं व्रजे धावमानं
स्वसौन्दर्यसम्मोहितस्वर्गयोषम् ।
यशोदासुतं स्त्रीजनैर्दृष्टलीलं
भजे भूषितं नूपुराद्यैर्विभूषैः ॥
बर्हावतंसं नवनीलमेघं
विलोलालकं चारुहासप्रकाशम् ।
मुरलीनिनादप्रमोदप्रदं तं
भजे नन्दसूनुं मनोज्ञस्वरूपम् ॥
गोपाङ्गनाभिः परितो विलोक्यं
क्रीडापरं कुङ्कुमलेपशोभम् ।
कौस्तुभदीप्तोरसमीशमाद्यं
वन्दे मुकुन्दं वरदं दयालुम् ॥
॥ मन्त्रः ॥
क्लीं गोवल्लभाय स्वाहा ॥
इति श्रीगोवल्लभमन्त्रः सम्पूर्णः ।
The mantra given above may be chanted without initiation.
Encoded and proofread by Durga Sharma