गोविन्दमन्त्रः
॥ विनियोगः ॥
अस्य श्रीगोविन्दमन्त्रस्य त्रैलोक्यमोहनाख्य ऋषिः । गायत्री छन्दः ।
त्रैलोक्यमोहनो देवता । अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
॥ ऋष्यादिन्यासः ॥
त्रैलोक्यमोहनाख्यऋषये नमः शिरसि ।
गायत्रीछन्दसे नमः मुखे ।
त्रैलोक्यमोहनदेवतायै नमः हृदि ।
विनियोगाय नमः सर्वाङ्गे ॥
॥ करन्यासः ॥
ॐ क्लां अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ क्लूं मध्यमाभ्यां नमः ।
ॐ क्लैं अनामिकाभ्यां नमः ।
ॐ क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥
॥ षडङ्गन्यासः ॥
ॐ क्लां हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ क्लूं शिखायै वषट् ।
ॐ क्लैं कवचाय हुं ।
ॐ क्लौं नेत्रत्रयाय वौषट् ।
ॐ क्लः अस्त्राय फट् ॥
॥ ध्यानम् ॥
कल्पद्रुममूलसंस्थितवरं राजोपविष्टं हरिं
पुष्पेषुक्षुशरं सरोजमपि च पाशाङ्कुशौ बिभ्रतम् ।
चक्रं शङ्खगदां च धारयदुरःसंश्लिष्टलक्ष्मीप्रियं
नानाभूषणरक्तचन्दनयुतं पीताम्बरं संस्मरेत् ॥
मुक्ताहारविराजमानवपुषं श्रीवत्सकौस्तुभभृतं
मन्दस्मेरमुखाम्बुजं मधुरिपुं भक्तेष्टसिद्धिप्रदम् ।
श्रीलक्ष्म्यालिङ्गितवामभागममलं नीलाम्बुदश्यामलं
वन्दे हृषीकेशमीशमव्ययपदं सर्वार्थसिद्धिप्रदम् ॥
॥ मन्त्रः ॥
क्लीं हृषीकेशाय नमः ॥
इति श्रीगोविन्दमन्त्रः सम्पूर्णः ।
Encoded and proofread by Durga Sharma