$1
श्रीगुरुवायुपुरेशसुप्रभातम्
$1

श्रीगुरुवायुपुरेशसुप्रभातम्

उत्तिष्ठ कृष्ण गुरुवायुपुरेश शौरे उत्तिष्ठ देव वसुदेवसुपुण्यमूर्ते । उत्तिष्ठ माधव जनार्दन राधिकेश त्रैलोक्यमेतदखिलं कुरु मङ्गलाढ्यम् ॥ १॥ श्रीजामदग्न्यभुवि सर्वजगद्धितार्थे जीवेन मारुतयुतेन कृतप्रतिष्ठम् । गुर्वादिवायुपुरनाथमनाथनाथं वाचा नमामि मनसां वचसामगम्यम् ॥ २॥ विश्वप्रकाश गुरुवायुकृतप्रतिष्ठ क्षेत्रज्ञरूप परमेश्वर विश्वबन्धो । आनन्दरूप जगतां स्थितिसृष्टि हेतो स्वात्मानमेव भगवन्तमभीष्टवीमि ॥ ३॥ मायागृहीतविधिविष्णुमहेशरूप सूत्रात्म वायुगुरुगेहग विश्वरूप । विश्वोद्भवप्रलयकेलिषुलोल भूमन् ब्रह्मात्मरूप बहुरूप नमो नमस्ते ॥ ४॥ मायामहाजवनिकापिहितात्मदृष्टिः विश्वोद्भव प्रलयकेलिषु जागरूकम् । नित्यप्रबुद्धमपि बोधयितुं प्रवृत्तः सूर्यं तमोवृतमवैति तमोऽन्धदृष्टिः ॥ ५॥ निद्रा न तेऽस्ति जितमाय सदाऽप्रमेय मायाप्रपञ्चनवनाटकसूत्रधारिन् । लोकानुसारविधाय ननु बोध्यसे त्वं वातालयेश्वर विभो तव सुप्रभातम् ॥ ६॥ श्रीव्यासनारदसनन्दसनत्कुमार- दुर्वासगर्गकपिलाद्यखिला मुनीन्द्राः । प्राप्ता हरे तव पदाम्बुजदर्शनार्थं वातालयेश्वर विभो तव सुप्रभातम् ॥ ७॥ प्रत्यूषपूजनरताः किल पूजकास्ते पुष्पोपहारतुलसीदधिदुग्धहस्ताः । सम्बोधयन्ति भगवन् श्रुतिसूक्तपाठैः वातालयेश्वर विभो तव सुप्रभातम् ॥ ८॥ भक्ता जनाः सुकदलीफलशर्करादि हैयङ्गवीनपृथुकान्वितलाजपूपान् । तुभ्यं निवेदयितुमद्य समागतास्ते वातालयेश्वर विभो तव सुप्रभातम् ॥ ९॥ वातादिरोगपरिपीडितसर्वगात्राः दूरात्समेत्य सततं त्वयि भक्तियुक्ताः । कृष्णाच्युताघहरणाम्बुजनाभ विष्णो नारायणाम्बुजभवादिनिषेविताङ्घ्रे । मां पाहि वातपुरनाथ समीरयन्ति वातालयेश्वर विभो तव सुप्रभातम् ॥ १०॥ दूरात्समेत्य मनुजास्तव चक्रतीर्थे स्नात्वा विशुद्धहृदयाः फलपुष्पहस्ताः । त्वत्पुण्यनामगणजापरता भजन्ते वातालयेश्वर विभो तव सुप्रभातम् ॥ ११॥ त्वां देवकी च वसुदेवसुतश्च नन्दः सुप्तप्रबुद्धमिह दुग्धकरा यशोदा । त्वत्प्रेमभारभरिताः प्रतिपालयन्ति वातालयेश्वर विभो तव सुप्रभातम् ॥ १२॥ मायात्तदेह मधुसूदन विश्वमूर्ते कायात्तवार्चितपदाम्बुज पुण्यकीर्ते । राधाधरस्थमधुलोलुप रम्यमूर्ते वातालयेश्वर विभो तव सुप्रभातम् ॥ १३॥ मीनाकृते श्रुतिसमुद्धरणाय पूर्वं कूर्माकृते गिरिसमुद्धरणाय पश्चात् । कोलाकृते क्षितिसमुद्धरणाय भूमन् गोपाल सुन्दर विभो तव सुप्रभातम् ॥ १४॥ श्रीनारसिंह दितिजक्षयहेतुभूत प्रह्लादरक्षक विभो वटुवामनाख्य । श्रीराम भार्गव हलायुध कृष्ण कल्किन् वातालयेश्वर विभो तव सुप्रभातम् ॥ १५॥ श्रीकृष्ण वृष्णिवर यादव राधिकेश गोवर्धनोद्धरण कंसविनाश शौरे । गोपाल वेणुधर पाण्डुसुतैकबन्धो श्रीमारुतालयविभो तव सुप्रभातम् ॥ १६॥ कृष्णेति वर्णयुगमत्र सुकीर्तनेन भक्तास्तरन्ति भवसिन्धुमयत्नतो हि । सत्येवमेनमतिदीनमुपेक्षसे किं कृष्णाखिलेश्वर विभो तव सुप्रभातम् ॥ १७॥ नित्यं च भागवतवाचनबद्धदीक्षाः भक्ताः कथाश्रवणकौतुकिनश्च शौरे । त्वत्सन्निधावनुमतिं किल तेऽर्थयन्ते वातालयेश्वर सुजागरणं तवास्तु ॥ १८॥ var विभो तव सुप्रभातम् ॥ भक्तान् विलोकय दृशा करुणार्द्रया त्वं आश्वेव ताननुगृहाण कृतार्थयेश । त्वत्पादयोर्वितर भक्तिमचञ्चलां मे नित्यं गृणामि वचसा तव मङ्गलानि ॥ १९॥ सर्वोपनिषदीड्याय निर्गुणाय गुणात्मने । शङ्कराभिन्नरूपाय सच्चिद्रूपाय मङ्गलम् ॥ २०॥ सत्यभामासमेताय सत्यानन्दस्वरूपिणे रुक्मिणीप्राणनाथाय लोकपूज्याय मङ्गलम् ॥ २१॥ राधाधरमधुप्रीतमानसाय महात्मने गोपगोपीसमेताय गोपालायास्तु मङ्गलम् ॥ २२॥ मङ्गलं वेदवेद्याय वासुदेवाय मङ्गलम् । मङ्गलं पद्मनाभाय पुण्यश्लोकाय मङ्गलम् ॥ २३॥ मङ्गलं परमानन्दब्रह्मरूपाय मङ्गलम् । गुरुवायुपुरेशाय श्रीकृष्णायास्तु मङ्गलम् ॥ २४॥ इति श्रीगुरुवायुपुरेशसुप्रभातं सम्पूर्णम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com and PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : Guruvayurappan Suprabhatam
% File name             : guruvAyurappansuprabhAtam.itx
% itxtitle              : guruvAyurappan suprabhAtam
% engtitle              : guruvAyurappan suprabhAtam
% Category              : vishhnu, krishna, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com, PSA Easwaran
% Indexextra            : (Text, English)
% Latest update         : November 24, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org