हरिस्तुतिः
यमकं वा प्रासं वा विदुषां दृष्टिर्न गोचरीकुरुते ।
रसविमुखस्तद्द्रष्टा जनः कलौ मान्यतां मुधा कुशलः ॥ १॥
यमकप्रासन्यसनं स्वप्ने चाहं न किञ्चिदपि गणये ।
यद्यपि हरिहरविनुतौ परिहृतमेतत् सुखं सतां दिशताम् ॥ २॥
यदि वाक् सामग्री वस्तथापि दिशतां मतिं हयग्रीवः ।
मोहलतामूलहरी यदीयहेषारवोत्थिता लहरी ॥ १॥
सुखमनुसन्धातारं नाभौ दधतं सुमेधसं धातारम् ।
खगतुरगं गायामो यस्य पदतलाद् बभूव गङ्गायामः ॥ २॥
रचिता हि दशावतारमायाः प्रभुणा येन दशावता रमायाः ।
तममुं कलयामहे शरण्यं निजयावत्कल्या महेशरण्यम् ॥ ३॥
पदपङ्करुहो मरन्दधारा भुवनं यस्य समस्तमुद्दधार ।
न किमृच्छति तत्कटाक्षमाला कलनीया स्मरणार्थमक्षमाला ॥ ४॥
अपि सन्ति विरिञ्चनादिदेवा महिमैषां नहि किञ्चनादिदेव ।
अयमेव हि भक्तकार्यरक्षी भुवनं येन समन्वकार्यरक्षि ॥ ५॥
मूर्तिर्नीपश्यामा यस्य रमा हृदि निवासमाप श्यामा ।
देवं तमपश्यामास्माकमतः श्रमकरी बहुतपस्या मा ॥ ६॥
त्यक्त्वा दुष्कृतमायां हरिपदभक्तिं यदा नियतमायाम् ।
सम्पदि पुण्यतमायां स्थितोऽस्मि साक्षादकामयत मा याम् ॥ ७॥
यः सर्वदाप्यवनतः परस्तवनतोषसंविभावनतः ।
तस्य ज्ञानमुदयते हरिश्च दयते रमापि मोदयते ॥ ८॥
शेषाद्रिं प्रविशेयं देवं द्रक्ष्यामि पीतकौशेयम् ।
मम सुचिरादाशेयं तत्र च कवितां सदा प्रतिदिशेयम् ॥ ९॥
यस्तु हरिं पूजयति स्वमहिम्ना तं हरिर्नियोजयति ।
इह च सुखं योजयति स्वर्गे यत् सुरर्षभो जयति ॥ १०॥
इति श्रीनिवासविरचिता हरिस्तुतिः सम्पूर्णा ।
स्तोत्रसमुच्चयः २ (७८)
Two stotra-s, namely Haristuti (78) and
Hariharastuti (100) of Srinivasa, whose Harastuti
was published in the first volume (pp. 291-2),
are included herein. He was the son of Lakshmi
and Venkata and belonged to the Vajasaneyishakha
and Kaushikagotra. Apart from these stotra-s he
is known to have written several other works.
Proofread by Rajesh Thyagarajan