हर्यष्टप्रासपञ्चकम्
आदावेव सुनिर्विकारवपुषे वेदादिसद्योनये
भेदाभेदविवर्जितात्मगतये वेदान्तवेद्यात्मने ।
पादाम्भोरुहदाससंसृतिमयच्छेदाय लक्ष्मीपते
कादाचित्कतयात्मकल्पितजगद्भेदाय तुभ्यं नमः ॥ १॥
बालार्कद्युतिकौस्तुभाङ्कितगले नीलाम्बुजाभे जग-
ज्जालोत्पादकनाभिपङ्कजभवत्कीलालजन्मासने ।
फालाक्षप्रमुखस्वभक्तकरुणावालाक्षिपद्मे मनो-
लीला मेऽस्तु हरौ सदापि तुलसीमालादिभिर्भूषिते ॥ २॥
हैमातुल्यमणिप्रभामकुटिनं सोमार्ककोटिद्युतिं
भीमाकारमहासुरप्रशमनोद्दामायुधालङ्कृतम् ।
रोमाञ्चाङ्कितयोगिपुङ्गवरहोधीमाननीयाकृतिं
भूमालालितपादपद्मयुगलं क्षेमाय सेवेऽच्युतम् ॥ ३॥
संसारार्णवमज्जतामुरुभयध्वंसात्मनामावलिः
कंसारातिदशाननन्तकमुखोल्लासावतारांशकैः ।
हंसारूढविधातृपूर्वकसुरान् हिंसाविहीनान् मुहुः
पुंसामाकलयन् जघन्यमिह मां निःसारमव्याद्धरिः ॥ ४॥
पायाच्छेषफणासहस्रमणिभासाग्राहकोट्युष्णरुक-
छायाभासि तदीयभोगशयने जायाष्टकेनावृते ।
मायावर्जितयोगमुद्रितमुनिध्येयात्मनिद्रां भजन्
कायात् कायमुपेत्य दुःखितमितोऽपायान्मुकुन्दोऽद्य माम् ॥ ५॥
हठात्कारेण संसारदुःखानि निखिलान्यपि ।
हरत्येव न सन्देहो हर्यष्टप्रासपञ्चकम् ॥ ६॥
इति श्रीहर्यष्टप्रासपञ्चकस्तोत्रं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (७९)
Proofread by Rajesh Thyagarajan