पराशरसंहितायां हयग्रीवमन्त्रविवरणम्

पराशरसंहितायां हयग्रीवमन्त्रविवरणम्

श्रीहयग्रीवैकाक्षरी । अथोच्यन्ते विशेषेण क्रमाद्द्वादशसङ्ख्यया । हयग्रीवमहामन्त्रा विद्यामोक्षप्रदायकाः ॥ सान्तं हान्तं समुद्धृत्य प्रणवान्तं सबिन्दुकम् । एकाक्षरं हयग्रीवमेतत् ज्ञानादिदायकम् ॥ षट्स्वरैस्तुकरन्यासं कुर्यात् देव षडङ्गकम् । व्याप्यं तद्व्यापकं चैव तन्मन्त्रेणैव कारयेत् ॥ एकाक्षरहयग्रीवं दृष्ट्वा पूर्वोक्तमादरात् । पौरश्चरणहूमादि कुर्यात्तन्मन्त्रसिद्धये ॥ श्रीहयग्रीवत्रयक्षरी । क्रमाद्वक्ष्ये विधानेन हयग्रीवत्रयाक्षरम् । ``महामायां ह्सौं ह्रीं'' च भवेदेतत्त्रयाक्षरम् । ज्ञानैश्वर्यकरं शान्तं सर्वेषां मुक्तिदायकम् ॥ करन्यासं षडङ्गं तु कुर्यान्मन्त्राक्षरत्रयैः । हयग्रीवमहं वन्दे चक्रपद्मधरं विभुम् ॥ श्रीभूमिसहितं देवं सर्वाभरणभूषितम् । लक्षमेकं जपेद्भक्त्या एतन्मन्त्रादिसिद्धये ॥ श्रीहयग्रीवषडक्षरम् । होमपूजादिकं सर्वमेकाक्षरवदाचरेत्, वक्ष्ये तद्वत्क्रमेणैव हयग्रीवषडक्षरम् ॥ ``ॐ-हं-सां-हुं-फट्स्वाहेति'' उद्धरेन्मन्त्रमुत्तमं ज्ञानमोक्षप्रदं नॄणां सर्वदिग्विजयप्रदम् ॥ प्रणवेन करन्यासं षडङ्गं षट्स्वरैन्यसेत्, चक्रशङ्खगदापद्मज्ञानपुस्तक धारिणम् ॥ हयग्रीवमहं वन्दे किरीटादिविभूषितम् ॥ पौरश्चरणहोमादी नेवं क्रमादीनेकाक्षरवदाचरेत् । श्रीहयग्रीवाष्टाक्षरी । अष्टाक्षरं हयग्रीवं क्रमाद्वक्ष्ये चतुर्मुखम् । ``ॐ हयग्रीवाय नम''इति इदमष्टाक्षरं भवेत् ॥ हयग्रीवमिदं शान्तं मोक्षश्रीज्ञानदायकम्! प्रणवेन करन्यासं षडङ्गं षट्स्वरैः न्यसेत् ॥ शङ्खचक्रगदापद्मज्ञानपुस्तकधारिणम् । पाशाङ्कुशधरं देवं हयग्रीवमहं भजे ॥ श्रीहयग्रीवदशाक्षरी पूजनार्चादिकं सर्वं तदेकाक्षरवद्भवेत् । दशाक्षरं हयग्रीवं वक्ष्ये तद्वत्क्रमेण च ॥ ``ॐ ह्रीं ह्लौं हयग्रीवाय स्वाहा'' इति मन्त्रं समुद्धरेत् ॥ दशाक्षर हयग्रीवमेतद्विद्याप्रदायकम् । प्रणवेन करन्यासं षडङ्गं षट्स्वरैन्न्यसेत् ॥ चक्रशङ्खगदापद्म पाशशार्ङ्गासि धारिणम् । ज्ञानादिपुस्तकधरं हयाननमहं भजे ॥ पौरश्चरणहोमादीनेकाक्षरवदाचरेत् । श्रीहयग्रीव द्वादशाक्षरी । हयग्रीवाख्यममलं वक्ष्ये तद्द्वादशाक्षरम् । ``ॐ नमो भगवते हयग्रीवाय''मनुर्भवेत् । हयग्रीवमनुं शान्तं विद्यैश्वर्यादिदायकम् । प्रणवेन करन्यासं षट्स्वरैस्तु षडङ्गकम् ॥ पूजाहोमादिकं सर्वमेकाक्षर वदाचरेत् । शङ्खचक्रगदापद्मज्ञानपुस्तक धारिणम् । पाशाङ्कुशाग्नि वज्रादिखेटकुन्तधरं विभुम् ॥ श्रीभूनीळाधिपं देवं वनमालाविराजितम् । हयग्रीवं भजे नित्यं सर्वाभरणभूषितम् ॥ श्रीहयग्रीवानुष्टुप् । वक्ष्ये चानुष्टुभं शान्तं हयग्रीवमनुत्तमम् ॥ भुक्तिमुक्तिप्रदं सम्यक् सर्वविद्याप्रदायकम् ॥ ऋग्यजुस्सामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः ॥ उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर । सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय ॥ पदै रर्थैः करन्यासं कुर्याद्देव षडकङ्गकम् । आनुष्टुभद्वयं चैव ज्ञानाद्यैश्च तथा भवेत् ॥ ध्यानार्चनादिकं सर्वमेकाक्षरवदाचरेत् ॥ ॐ ह्लौं ह्रीं श्रीम्-ऐम्-श्रीहयग्रीव मम सर्वविद्यां दापय दापय । तामसबुद्धिं हन हन ॥ अज्ञानादीन् नाशय नाशय ॥ सर्व वेदशास्त्रादिषु सर्वज्ञत्वं दापय दापय । अणिमादीन् दद फट् स्वाहा ॥ ९॥ एतन्मन्त्रार्थ सिद्ध्यर्थं जपेदयुतमादरात् ॥ ॐ ह्रीं हयग्रीवाय यं रं परवादिविद्या परवादिजिह्वास्तम्भं कुरु कुरु हुं फट् स्वाहा ॥ १०॥ जपेदयुतमेतद्वै तन्मन्त्रफलसिद्धये ॥ ॐ ह्रीं ष्ट्रां हयग्रीवाय परवादिसर्ववेदशास्त्रसर्वविद्यामाकर्ष याकर्षय ह्लौं क्षौं वौ षट् ॥ ११॥ ॐ ष्ट्रां श्रीं क्षां हयग्रीवनारसिंहाय यं रं सर्वशत्रून् स्तम्भय स्तम्भय भ्रामय भ्रामय हुं फट् ॥ १२॥ एतन्मन्त्रार्थसिद्ध्यर्थं जपेदयुतमादरात् ॥ इति श्रीपाञ्चरात्रे पराशरसंहितायां विशिष्टपरमधर्मशास्त्रे हयग्रीवमन्त्राणां ऋष्यादिध्यानवर्णनं नाम अष्टाविंशोध्यायः सम्पूर्णः । Proofread by Chandrasekhar Karumuri
% Text title            : Hayagriva Mantravivaranam from Parashara Samhita
% File name             : hayagrIvamantravivaraNam.itx
% itxtitle              : hayagrIvamantravivaraNam (parAsharasaMhitAantargatam)
% engtitle              : hayagrIvamantravivaraNAm
% Category              : vishhnu, mantra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Description/comments  : parAsharasaMhitAyAM
% Indexextra            : (Telugu)
% Latest update         : September 19, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org